भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 3

3.1

नित्य-कृत्य-प्रयोगम् आह-
ओं नमः श्री-कृष्णाय ।
ओम् अस्य श्री-भगवद्-गीता-माला-मत्रस्य भगवान् वेद-व्यास ऋषोर् अनुष्टुप्-
छन्दः श्री-कृष्णः परमात्मा देवता जपे विनियोगः ।
अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे (2.11) इति बीजम् ।
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज (18.66) इति शक्तिः ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (18.66) इति कीलकम् ।
ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् (15.1) इति कवचम्।
अमुक-कर्मणि विनियोगः ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः (2.27) इत्य् अङ्गुष्टाभ्यां नमः
।
न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः (2.27) इति तर्जनीभ्यां नमः ।
अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च (2.24) इति मध्यमाभ्यां नमः
।
नित्यः सर्वगतः स्थाणुर् अचलोऽयं सनातनः (2.24) इति अनामिकाभ्यां नमः ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (11.5) इति कनिष्ठाभ्यां नमः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च (11.5) इति कर-तल-पृष्ठाभ्यां नमः
।
नैनं छिन्दन्ति शस्त्राणि इति हृदयाय नमः ।
न चैनं क्लेदयन्त्य् आपो इति शिरसे स्वाहा ।
अच्छेद्योऽयम् अदाह्योऽयम् इति शिखायै वषट् ।
नित्यः सर्वगतः स्थाणुः इति कवचाय हूं ।
पश्य मे पार्थ रूपाणि इति नेत्र-त्रयाय वौषट् ।
नानाविधानि दिव्यानि इत्य् अस्त्राय फट् । श्री-कृष्ण-प्रीत्य्-अर्थं जपे विनियोगः ।
(श्री-गीता-माहात्म्यम्)-
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराण-मुनिना मध्ये महाभारते ।
अद्वैतामृत-वर्षिणीं भगवतीम् अष्टादशाध्यायिनीं
अम्ब त्वाम् अनुसन्दधामि भगवद्-गीते भव-द्वेषिणीम् ॥
नमोऽस्तु ते व्यास विशाल-बुद्धे
फुल्लारविन्दायातपत्र-नेत्रे ।
येन त्वया भारत-तैल-पूर्णः
प्रज्वलितो ज्ञानमयः प्रदीपः ॥
प्रपन्न-परिजाताय तोत्र-वेत्रैक-पाणये ।
ज्ञान-मुद्राय कृष्णाय गीतामृत-दुहे नमः ॥
सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः ।
पार्थो वत्सः सुधीर् भोक्ता दुग्धं गीतामृतं महत् ॥
वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम् ।
देवकी-परमानन्दं कृष्णं वन्दे जगद्-गुरुम् ॥
भीष्म-द्रोण-तटा जयद्रथ-जला गान्धारी-नीलोत्पला
शल्य-ग्राहवती कृपेण वहिनी कर्णेन वेलाकुल ।
अश्वत्ताम-विकर्ण-घोर-मकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवार्णव-नदी कैवर्तकः केश्वः ॥
पाराशर्य-वचः सरोजम् अमलं गीतार्थ-गन्धोत्कटं
नानाख्यानक-केशरं हरि-कथा-सम्बोधनाबोधितम् ।
लोके सज्जन-षट्पदैर् अहरहः पेपीयमानं मुदा
भूयाद् भारत-पङ्कजं कलिमल-प्रध्वंसनं श्रेयसे ॥
मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् ।
यत्-कृपा तम् अहं वन्दे परमानन्द-माधवम् ॥
यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ (12.13.1)
इति न्यास-विधिः ।
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-संमूढ-चेताः ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे
शिष्यस् तेऽहं शाधि मां त्वां प्रपन्नम् ॥ (2.7)
जप-नियम-सङ्ख्या अष्टोत्तर-शतम् । अथवा सहस्रम् । प्रयोगम् आह-
(श्री-गोपाल-कवचम् ।)
पुलस्त्य उवाच-
भगवन् सर्व-धर्मज्ञ कवचं यत् प्रकाशितम् ।
त्रैलोक्य-मङ्गल नाम कृपया ब्रह्मणे पुरा ॥
ब्रह्मणा कथितं मह्यं परं स्नेहाद् वदामि ते ।
अतिगुह्यतमं तत्त्वं ब्रह्म मन्त्रोघ-विग्रहम् ॥
यद् धृत्वा पठनाद् ब्रह्मा सृष्टिं वितनुते सदा ।
यद् धृत्वा पठनाद् पाति महा-लक्ष्मीर् जगत् त्रयम् ॥
पठनाद् धारणाच् छम्भुः संहर्ता सर्व-तत्त्व-वित् ।
त्रैलोक्य-जननी दुर्गा महिषादि-महासुरान् ॥
वर-दृप्तान् जघानैव पठनाद् धारणाद् यतः ।
एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् अवाप्नुयुः ॥
शिष्याय भक्ति-युक्ताय साधकाय प्रकाशयेत् ।
शठाय पर-शिष्याय निन्दकाय तथैव हि ॥
हरिभक्ति-विहीनाय पर-दार-रताय च ।
कृपणाय कुशीलाय दत्त्वा मृत्युम् अवाप्नुयात् ॥
त्रैलोक्य-मङ्गलस्यापि कवचस्य प्रजापतिः ।
ऋषिश् छन्दश् च गायत्री देवो नारायणः स्वयम् ॥
धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः ।
ओं प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं पायान् नेत्र-युग्मम् अष्टार्णो भक्ति-मुक्तिदः ॥
क्लीं पायाच् छ्रोत्र-युग्मं चैकाक्षरः सर्व-मोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ।
गोपी-जन-पदं वल्लभाय स्वाहाननं मम ॥
अष्टादशाक्षरो मन्त्रः कण्ठं पायाद् दशाक्षरः ।
गोपी-जन-पदं वल्लभाय स्वाहा भुज-द्वयम् ॥
क्लीं ग्लौं क्लीं करौ पायात् क्लीं कृष्णायाङ्गजोऽवतु ।
हृदयं श्री-भुवनेशः क्लीं कृष्णाय क्लीं स्तनौ मम ॥
गोपालायाग्निजायां तं कुक्षि-युग्मं सदावतु ।
क्लीं कृष्णाय सदा पातु पार्श्व-युग्मं मनूत्तमः ।
कृष्ण-गोविन्दकौ पातां स्मराद्यौ ङे-युतौ मनू ॥
अष्टादशाक्षरः पातु नाभिं कृष्णेति द्व्य्-अक्षरो मनुः ।
पृष्ठं क्लीं कृष्ण-कङ्कालं क्लीं कृष्णाय द्वि-ठान्तकः ।
सक्थिनी सततं पातु श्रीं ह्रीं क्लीं ठ-द्वयम् ॥
उरू सप्ताक्षरः पातु त्रयोदशाक्षरोऽवतु ॥
श्रीं ह्रीं क्लीं पदतो गोपी-जन-पदं ततः ।
वल्लभाय स्वाहेति पातु क्लीं ह्रीं श्रीं च दशार्णकः ॥
जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ।
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।
अष्टादशाक्षरो ह्रीं-श्रीं-पूर्वको विंशद्-अर्णकः ॥
सर्वाङ्गं मे सदा पातु द्वारका-नायको बली ।
नमो भगवते पश्चाद् वासुदेवाय तत्-परम् ॥
ताराद् यो द्वादशार्णोऽयं प्राच्यां मां सर्वदावतु ।
श्रीं ह्रीं क्लीं दशवर्णस् तु क्लीं ह्रीं श्रीं षोडशाक्षरः ॥
गदाद्यदायुधो विष्णुर् माम् अग्नेर् दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदावतु ॥
तारं नमो भगवते रुक्मिणी-वल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥
क्लीं पदं हृषीकेशाय नमो मां वारुण्ऽवतु ।
अष्टादशार्णः कामान्तो वायव्ये मां सदावतु ।
श्रीं माया काम-कृष्णाय ह्रीं गोविन्दाय द्वि-ठो मनुः ।
द्वादशार्णात्मको विष्णुर् उत्तरे मां सदावतु ॥
वाग् भवं काम-कृष्णाय ह्रीं गोविन्दाय ततः परम् ॥
श्रीं गोपी-जन-वल्लभाय स्वाहा इति ततः परम् ।
द्वात्रिंशद्-अक्षरो मन्त्रो माम् ऐशान्ये सदावतु ।
कालीयस्य फणा-मध्ये दिव्यं नृत्यं करोति तम् ।
नमामि देवकी-पुत्रं नित्य-राजानम् अच्युतम् ॥
द्वात्रिंशद्-अक्षरो मन्त्रोऽप्य् आद्योऽधो मां सर्वतोऽवतु ।
क्लीं काम-देवाय विद्महे पुष्प-बाणाय धीमहि ।
तन् नोऽनङ्गः प्रचोदयाद् एष मां पातु चोर्ध्वतः ॥
त्रैलोक्य-मङ्गलं नाम कवचं ब्रह्म-रूपिणम् ।
इति ते कथितं विप्र सर्व-मन्त्रौषध-विग्रहम् ।
ब्रह्मेश-प्रमुखाधीशैर् नारायण-मुखाच् छ्रुतम् ॥
तव स्नेहान् मयाख्यातं प्रवक्तव्यं न कस्यचित् ।

गुरुं प्रणम्य विधिवत् कवचं प्रपठेद् यदि ॥
सकृद्-दिस्-त्रिर्-यथा-ज्ञानं सोऽपि सर्व-तपोमयः ।
मन्त्रेषु सकलेष्व् एव देशिको नात्र संशयः ॥
शतम् अष्टोत्तरं सास्य पुरश्चर्या-विधिः स्मृतः ।
हवनादीन् दशांशेन कृत्वा तत् साधयेद् ध्रुवम् ।
यदि चेत् सिद्धि-कवचो विभुर् एव भवेत् स्वयम् ॥
मन्त्र-सिद्धिर् भवेत् तस्य पुरश्चर्या-विधानतः ।
श्रद्धा-शुद्ध-मतेस् तस्य लक्ष्मी-वाणी वसेन् मुखे ॥
पुष्पाञ्जल्य्-अष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ।
दश-वर्ष-सहस्राणां पूजायाः फलम् आप्नुयात् ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद् यदि
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर् न संशयः ॥
अश्वमेध-सहस्राणि वाजपेय-शतानि च ।
महा-दानानि यान्य् एव प्रादक्षिण्ये भवस् तथा ॥
कलां नार्हन्ति तान्य् एव सकृद् उच्चादणादतः ।
कवचस्य प्रसादेन जीवन्-मुक्तो भवेन् नरः ॥
त्रैलोक्यं क्षोभयत्य् एव त्रैलोक्य-विजयी भवेत् ।
इदं कवचम् अज्ञात्वा भजेद् यः पुरुषोत्तमम् ।
शत-लक्ष-प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥
इति सनत्-कुमार-तन्त्रे नवम-पटले श्री-नारद-पञ्चरात्रे (4.5)
त्रैलोक्य-मङ्गलं नाम श्री-गोपाल-कवचं समाप्तम् ।
अथ पुरश्चरण-सङ्कल्पादि-विधिः । श्री-विष्णुर् विष्णुर् नमोऽस्य अमुक-मासे
अमुक-पक्षे भास्करे अमुक-तिथौ अमुक-गोत्रोऽमुक-दासस् त्रैलोक्य-संमोहन-
तन्त्रोक्त-श्री-कृष्ण-देवतायास् त्रैलोक्य-संमोहन-कवच-सिद्धि-कामस् तत्
कवचस्याष्टोत्तर-शत-जप-तद्-दशांश-होम-तद्-दशांश-तर्पण-तद्-
दशांशाभिषेक-तद्-दशांश-ब्राह्मण-भोजन-रूप-पुरश्चरणम् अहं करिष्ये
। एक-दिवसे कार्य-सिद्धिः । प्रयोगः श्रीमद्-भागवतानुसारेण दशार्ण-मन्त्र-
प्रथमे श्री-भागवत-मङ्गलाचरणे ।
[थे fओल्लोwइन्ग् सेच्तिओन् इस् पेर्हप्स् नोत् इन् अल्ल् मनुस्च्रिप्त्स्.]
अथ छाया-पुरुष-दर्शन-फलम् आह-
पूर्वाह्ने सूर्य-बिम्बार्कं पृष्ठे कृत्वा नरः शुचिः ।
अनिमिषो हि स्व-च्छायां गलाद् ऊर्ध्वं विलोकयेत् ॥
तत्र च्छाया-समुद्भूतं पुरुषं यदि पश्यति ।
सर्वावयव-संयुक्तं शुभं वर्षावधिं स्मृतम् ॥
अदृष्टे हस्त-कर्णस्य पारयां हृदये नरः ॥
जीवस्यार्काश्व-दिक्-चन्द्र-वह्नि-नेत्र-समाः क्रमात् ।
शिरस्य् आदृष्टे षण्मासं सरन्ध्रे हृदि सप्तकम् ॥
एतज्-ज्ञानं महा-दिव्यं दुष्ट-शिष्याय नो वदेत् ॥
इति श्री-कंसारि-मिश्र-यशोधर-विरचित-दैवज्ञ-चिन्तामणौ तृतीय-प्रकाशः
समाप्तः ।
गायत्री-मन्त्रो राधाया मन्त्रः कृष्णस्य तत्-परम् ।
महाप्रभोर् मन्त्र-वरो हरि-नाम तथैव च ।
मानसी वर-सेवा च पञ्च-संस्कार-संज्ञकः ॥
अहङ्काराधिष्ठातृत्वाद् भूत-शुद्धेर् अधिदेवाय सङ्कर्षणाय नमः हे
सङ्कर्षण सद्यः शुध्येद् उपासनोपयुक्तं स्यात् तथा कृपां कुरु ।
अथ मातृका-ध्यानम्-
चिकुर-कलित-पिञ्छां पीन-तुङ्ग-स्तनाभ्यां
कर-जल-रुहि विद्यां दक्षिणे पद्म-रूपाम् ।
दधि-घटम् अपि सव्ये बिभ्रतीं तुङ्ग-विद्याम्
अमृत-किरण-कान्तिं मातृका-मूर्तिम् ईडे ॥
केशव-कीर्तिकादि-ध्यानम्-
कोणेनाक्ष्णोः पृथु-रुचिः मिथो हारिणा लिह्यमानाव्
एकैकेन प्रचुर-पुलकेनोपगुढौ भुजेन ।
गौरी-श्यामौ वसन-युगलं श्याम-गौरं वसानौ
राधा-कृष्णौ स्मर-विलसितोद्दाम-तृष्णौ स्मरामि ॥
तत्र न्यासस्य वासुदेवोऽधिष्ठाता स स्तोक-कृष्णोऽत्र ज्ञेयस् तद्-ध्यानम् उच्यते
।
अभ्र-श्यामं विद्युद्-उद्यद्-दुकूलं
स्मेरं लीलाम्भोज-विभ्राजि-हस्तम् ।
पिञ्छोत्तंसं वासुदेव-स्वरूपं
कृष्ण-प्रेष्ठं स्तोक-कृष्णं नमामि ॥
प्राणायामे निजाभीष्ट-देवौ तौ परिचिन्तयेत् ।
अन्योऽन्य-स्कन्ध-वन्दीकृत-पुलकि-भुजौ हिङ्गुल-स्वर्ण-वर्णं
कौशेयानां चतुष्कं धृत-रुचि दधतौ फुल्ल-वक्त्रारविन्दौ ।
आचिन्वानौ विहारं परिजन-घटया संभृतारण्य-भूषौ
गौर-श्यामाङ्ग-भासौ स्मित-मधुर-मुखौ नौमि राधा-मुकुन्दौ ॥
कर-कच्छपिकां कृत्वा ततो ध्यायेत् स्व-देवते ।
इद्धैः सिद्ध-त्रिदश-मुनिभिः प्रष्टुम् अप्य् अप्रगल्ह्बैर्
दूरे स्वस्थैर् विहित-नतिभिः सम्भ्रमैः स्तूयमाना ।
वैकुण्ठाद्यैर् अपि परिजनैः सस्पृहं प्रेक्षित-श्रीर्
माधुर्येण तिर्भुवन-चमत्कार-विस्तार-दीक्षा ॥
नवीन-यवसाङ्कुर-प्रकर-सङ्कुल-द्रोणिभिः
परिस्फुरित-मेखलैर् अखिल-धातु-लेखा-श्रिया ।
उपस्कृत-गुहागृहैर् गिरिभिर् उच्चलन् निर्झरैः
क्वचित् क्वचिद् अलङ्कृतास्फुटम् अनुष्ठानीव स्थला ॥
विकच-कमल-षण्डोत्कूज-कारण्डवानां
निरवधि दधि-दुग्धोढाति-मुग्धाम्बु-भाजाम् ।
लघु-लहरि-भुजाग्रोन्मृष्टतीव द्रुमाणां
विघटित-घन-धर्मां निम्नगानां घटाभिः ॥
मद-वलित-वल्गु-सारसैः
सरसानां मुहुर् अञ्जसा रसैः ।
सरसी-रुह-रूढ-रोचिषां
सरसीनां विसरेण राजिता ॥
(लिने मिस्सिन्ग्?)
गन्धानन्दित-सिन्धुजा-सहचरी-वृन्दैः क्षणाद् वीक्षितैः ।
बालार्क-प्रतिम-प्रवाल-सुषमा-पूर्णैः सुधा-माधुरी
दर्प-ध्वंसि-फलैः पलाशिभिर् अतिस्फीतैर् निरुद्धातपा ॥
मधूलीभिर् माद्यन्-मधुकर-वधू-झङ्कृति-घटा-
कृतानन्ङ्गाराति-प्रमद-वन-भङ्गी-जडिमभिः ।
समन्ताद् उत्फुल्ल-स्तवक-भर-लब्धावनतिभिर्
लता-विञ्छोलीभिः पृथुभिर् अभितो लाञ्छित-तटा ॥
कपिञ्जल-वलाकिका-चटक-चातकोपयष्टिकैः
पिकैर् मदन-सारिका-शुक-कलिङ्ग-पारावतैः ।
शत-च्छद-शित-च्छदैः करट-खञ्जरीटादिभिः
शकुन्तिभिर् अकुण्ठित-ध्वनिभिर् अन्तर् उद्भाषिता ॥
आभीराणाम् आनन्द-वृन्दानि चकोरैश्
चन्द्रात्मत्वा लालसया हातुम् अशक्या ।
तासां लब्धं कुन्तल-साम्यं पिञ्छ-समूहैर्
यद्भिर् नृत्यानुच्चैर् मत्त-मयूर-प्रकरैः ।
किटि-किरीटिभिः शल्यैर् भल्ल-प्लवङ्ग-कुरङ्गमैः
सृमर-चमरैर् गोलाङ्गुलैः समूरुचमूरुभिर्
उरुभिर् उरुभिः पारीन्द्रोघैः सरारु-भयोज्झितैः
पशुभिर् अशुभोन्मुक्तैर् इव स्थगितान्तरा गड्डरैर्
जडिम-डामर-शृङ्गैः क्षीरिणीभिर् अपि च च्छगलीभिः ।
गण्ड-शैल-स्मृति-सङ्गमाभिः कासरी-ततिभिर् अप्य् अवरुद्धा ॥
स्थलैः क्वचन निस्थलैः स्फटिक-कुट्टिम-द्योतिभिर्
हरिन्-मणि-मयैर् इव क्वचन शाद्वलैर् उज्ज्वला ।
निज-प्रवल-माधुरी-मृदित-हर्म्य-श्रिया
प्रसून-भर-मञ्जुला वर-निकुञ्ज-पुञ्जेन च ॥
आराधिता किल कलिन्द-सुतारविन्द-
स्यन्दानुबन्ध-रसिकेन समीरणेन ।
आनन्द-तुन्दिल-चराचर-जीव-वृन्दा
वृन्दाटवी प्रथमम् उच्च-रुचिर् विचित्याम् ॥ कुलकम् ।
मुहुर् अविकल-कल-झङ्क्रिया-कलापैर्
अलि-निकरस्य करम्बितां स्मरेयम् ।
इह घन-मकरन्द-सिक्त-मूलां
परिमल-दिग्ध-दिशं प्रसून-वाटीम् ॥
इह विद्रुम-विद्रुमं हरिन्-मणि-पत्रं वर-हीर-कोरकम् ।
कुरुविन्द-फलं श्रवत्-सुधा-प्रसरं कल्प-तरुं स्मरेद् बुधः ॥
ऋतुभिर् महितस्य तस्य नित्यं प्रकटं हेम-तटी-मध्ये विचिन्त्य-
महीष्टम् अष्टपत्रम् उदयन्-मिहिराभं
चिन्तयेद् इह सरोरुह-वर्यम् ।
मणि-कुट्टिमम् अत्र विस्फुरन्तं
परमानन्द-घनं स्मरेन् मनस्वी ॥

तत्र कुट्टिम-वरे स्फुट-दीप्तौ योगपीठम् अपि विन्चिन्त्य-
तस्योज्ज्वलायाम् उरु-कर्णिकायां
विराजितायां स्थित-सौख्य-भाजौ ।
नव्याम्बुद-स्वर्ण-विडम्बि-भासौ
कृष्णं च राधां च विचिन्तयामि ॥
शिखर-बद्ध-शिखण्ड-विस्फुरत्-
कुटिल-कुन्तल-वेणु-कृत-श्रियौ ।
तिलकित-स्फुरद्-उज्ज्वल-कुङ्कुम-
मृगमदाचित-चारु-विशेषकौ ॥
मनोज्ञतर-सौरभ-प्रणय-नन्दद्-इन्दिन्दिरं
स्फुरत्-कुसुम-मञ्जरी-विरचितावतंस-त्विषौ ।
चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं
विचित्र-मणि-कर्णिका-द्युति-विलीढ-कर्णाञ्चलाम् ॥
शरद्-अभिमुदितार-विन्द-द्युति-
दमनायत-लोहिताञ्चलाङ्कम्
अलघु-चटुल-दीर्घ-दृष्टि-खेला-
मधुरिम-खर्वित-खञ्जरीट-युवाम्
वल-ललाट-कृतार्ध-शशि-प्रभुं
द्वि-कलसीति-कर-स्फुरितालिकाम् ।
कुसुम-कार्मुक-कार्मुक-विभ्रमो-
द्धति-विधूनन-धुर्य-तर-भ्रुवो
चित्र-पट्ट-घटिकोपम-स्फुरत्-
पाश-वर्य-परिवीत-मस्तकम्
नासिका-शिखर-लम्बि-वर्तुल-
स्थूल-मौक्तिक-रुचाञ्चिताननाम्
राका-शारद-शर्वरीश-सुषमा-जैत्रानन-श्री-युजौ
नव्य्दीर्ण-तिल-प्रसून-दमन-श्री-नासिका-रोचिशौ ।
राजद्-बिम्ब-विडम्बिकावर-रुचौ गण्डस्थली-न्यक्कृते
प्रोन्मीलन्-मणि-दर्पणोरु-महसौ सुस्मेरता-सम्पदौ ॥
दिव्य-दुन्दुभि-गभीर-निस्वनं स्निग्धकण्ठ-कल-कण्ठ-जल्पितां
फुल्लाभिनव-वल्लिभिर् वलयित-स्कन्धैः प्रसूनावली ।
सुष्ठु-लब्ध-परिपाक-दाडिमी-
बीज-राज-विजयि-द्विजार्चिषे ।
कम्बुकण्ठ-विलुठन्-मणि-रत्न-
रत्न-निष्क-परिशोभित-कण्ठाम् ।
उन्नति-प्रथिम-सुललितांसं
स्निग्धयोर् उचित-रामवनम्राम् ।
दीप्रान् युगेन भुजयोर् भुजगान् हसन्तं
केयूरिणा विलसता श्रियम् आक्षिपन्तीम् ।
रत्नोर्मिका-स्फुरित-चारु-तराङ्गुलिभिर्
विद्योत-कङ्कणक-रञ्जित-पाणि-भाजौ ॥
हरिन्मणि-कवाटिकोद्भट-कठोर-वक्ष-स्थली-
विलासि-वन-मालिका-मिलित-हार-गुञ्जावलिम् ।
स्फुरन्-निविड-दाडिमी-फल-विडम्बि-वक्षोरुह-
द्वय-शिखर-शेखरी-भवद्-अमन्द-मुक्ता-लताम् ॥
अलोल-मधुपावलि-विजयि-रोम-राजीवलद्-
वली-त्रितय-मण्डित-प्रतनु-मध्य-रम्याकृतिम् ।
यम-स्वसरि संपतत्-सुर-सरिद्-वरावर्त-जिद्-
गभीरतर-नाभि-भागम् उरु-तुन्द-लक्ष्मी-भृतौ ॥
घन-जघन-विडम्बित-रत्न-काञ्ची-
वलयित-पीत-दुकूल-मञ्जु-लाभम् ।
मणिमय-रसनाढ्य-शोण-पट्टा-
म्बर-परिरम्भि-नितम्ब-रम्याम् ॥
अतिनव-मद-भर-मन्थर-सिन्धुर-कर-बन्धुरोरु-विमानौ जङ्घाभ्यां
रचित-रुचौ सुवर्तुलाभ्यां गूढेनाप्य् अनुपम-गुल्फ-युग्मकेन पद्भ्याम् अप्य्
अरुण-नखोज्ज्वलाभ्यां मणिमय-नूपुराञ्चिताभ्यां ।
आमृष्ट-पृष्ठम् अभितो दयिता-भुजेन
तिष्ठन्तम् उत्फुलिकिना किल दक्षिणेन ।
कान्तस्य सव्य-भुज-मूल-कृतोत्तमाङ्गां
तद्-वक्त्र-पद्म-तट-वल्गद्-अपाङ्ग-युग्माम् ॥
तिरो-न्यस्त-ग्रीवं किम् अपि दयिता-वक्त्र-कमले
वलद्-दीर्घापाङ्गं स्फुरद्-अधर-कूजन्-मुरलिकम् ।
भयन्-मध्यं सव्योपरि परिमिलद्-दक्षिण-पदं
चलच्-चिल्ली-मालं भुज-तट-गतोत्तंस-कुसुमम् ॥
रूपे कंसहरस्य मुग्ध-नयनां स्पर्शेऽतिहृष्यत्-त्वचं
वाण्याम् उत्कलित-श्रुतिं परिमले संस्पृष्ट-नासा-पुटाम् ।
आरज्यद्-रसनां किलाधर-पुटे न्यञ्चन्-मुखाम्भोरुहां
दम्भोद्गीर्ण-महा-धृतिं बहिर् अपि प्रोद्यद्-विकाराकुलाम् ॥
मुख-स्तोकोद्गीर्णानिल-विलसितामृष्ट-मुरली-
विनिष्क्रामद्-ग्राम-ग्लपित-जगती-धैर्य-विभवम् ।
प्रिया-स्पर्शेनान्तः-परवशतया खण्डितम् अपि
स्वरालापं भङ्ग्या सपदि गमयन्तं स्व-समयम् ॥
नीवी-बन्धेऽप्य् अतिशिथिलिते स्वेद-सन्दोह-मैत्री-
रुद्ध-श्रोणी-पुलिन-रसनाम् उन्नता-रङ्ग-रङ्गाम् ।
आद्य-द्रव-द्रवद्-अभिहृदां विस्मृताशेष-भावां
गाढोत्कण्ठा-निचय-रचितोद्दाम-वैक्लव्य-विज्ञाम् ॥
पुलकित-वपुषौ श्रुताश्रु-धारा
स्नपित-मुखाम्बुरुहौ प्रकम्प-भाजौ ।
क्षणम् अतिगूढ-गद्गदाढ्य-वाचौ
मदन-मदोन्मद-चेतसौ स्मरामि ॥
नवभिः शुशिरैर् विराजिता
गुरवी-बीज-समान-वर्ष्मभिः ।
अरुणेन विभूषिताधर-
कर-भाजां सरलेन वेणुना ॥
सुश्लाघ्ययान्तर्-निज-मुष्टिमेयया
हस्त-त्रयी-मान-मनोज्ञ-रूपया ।
भूयिष्टया श्यामल-कान्ति-जुष्टया
यष्ट्याद्य्-अवष्टम्भित-दक्ष-कूर्परम् ॥
असितेन विभङ्गुरात्मना
पृथु-मूलेन कृतेन चाग्रतः ।
धटि-काञ्चल-बद्ध-मूर्तिना
वर-शृङ्गेन पूरो निषेवितम् ॥
भृङ्गान् सुहृद्-वदन-गन्ध-भरेण लोलान्
लीलाम्बुजेन मृदुलेन निवारयन्त्या ।
उद्वीक्ष्यमाण-मुख-चन्द्रमसौ रसौघ-
विस्तारिणा ललितया नयनाञ्चलेन ॥
चामरभ-नव-मञ्जु-मञ्जरी-
भ्राजमान-करया विशाखया ।
चित्रया च किल दक्ष-वामयोर्
वीज्यमान-वपुषौ विलासतः ॥
नाग-वल्लि-दल-बद्ध-वीटिका-
सम्पुट-स्फुरित-पाणि-पद्मया ।
चम्पकादिलतया सकम्पया
दृष्ट-पृष्ट-तट-रूप-सम्पदौ ॥
रम्येन्दुलेखा-कल-गीत-मिश्रितैर्
वंशी-विलासानु-गुणैर् गुण-ज्ञया ।
वीणा-निनाद-प्रसरैः पुरस्थया
प्रारब्ध-रङ्गौ किल तुङ्गविद्यया ॥
तरङ्गद्-अङ्ग्या किल रङ्ग-देव्या
सव्ये सुदेव्या च शनैर् असव्ये ।
श्लक्ष्णाभिमर्शन-विमृज्यमान-
स्वेदाश्रु-धारौ सिचयाञ्चलेन ॥
स्मरण-मङ्गल-स्तोत्रम्
श्री-राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेषाद्य्-अगम्या
या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या ।
सा स्यात् प्राप्ता यया तां प्रथयितुम् अधुना मानसीम् अस्य सेवां
भाव्यां रागाध्व-पान्थैर् व्रजम् अनुचरितं नैत्यिकं तस्य नौमि

3.2

कुञ्जाद् गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां
प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन् गाः ।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यह् स कृष्णोऽवतान् नः

3.3

रात्र्यन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी-
पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः ।
दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्खटी-गीः-सशङ्कौ
राधा-कृष्णौ स-तृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि

3.4

राधां स्नात-विभूषितां व्रज-पयाहूतां सखीभिः प्रगे
तद्-गेहे विहितान्न-पाक-रचनां कृष्णावशेषाशनाम् ।
कृष्णं बुद्धम् अवाप्त-धेनु-सदनं निर्व्यूढ-गो-दोहनं
सुस्नातं कृत-भोजनं सहचरैस् तां चाथ तं चाश्रये

3.5

पूर्वाह्ने धेनु-मित्रैर् विपिनम् अनुसृतं गोष्ठ-लोकानुयातं
कृष्णं राधाप्ति-लोलं तद्-अभिसृति-कृते प्राप्त-तत्-कुण्ड-तीरम् ।
राधां चालोक्य कृष्णं कृत-गृह-गमनार्ययार्कार्चनायै
दिष्टां कृष्ण-प्रवृत्त्यै प्रहित-निज-सखी-वर्त्म-नेत्रां स्मरामि

3.6

मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूषा-प्रमुग्धौ
वाम्योत्कण्ठातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ ।
दोलारण्याम्बु-वंशी-हृति-रति-मधु-पानार्क-पूजादि-लीलौ
राधा-कृष्णौ स-तृष्णौ परिजन-घटया सेव्यमानौ स्मरामि

3.7

श्रीराधां प्राप्तगेहां निजरमणकृते क्.ल्प्तनानोपहारां
सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम् ।
कृष्णञ्चैवापराह्णे व्रजमनुचलितं धेनुव्ण्दैर्वयस्यैः
श्रीराधालोकतृप्तं पितृमुखमिलितं मातृमृष्टं स्मरामि

3.8

सायं राधा स्व-सख्या निज-रमण-कृते प्रेषितानेक-भोज्यां
सख्यानीतेश-शेषाशन-मुदित-हृदं तां च तं च व्रजेन्दुम् ।
सुस्नातं रम्य-वेशं गृहम् अनु जननी लालितं प्राप्त-गोष्ठं
निर्व्यूढोस्रालि-दोहं स्व-गृहम् अनु पुनर् भुक्तवन्तं स्मरामि

3.9

राधां सालीगणान्तामसितसितनिशायोग्यवेशां प्रदोषे
दूत्या वृन्दोपदेशादभिसृतयमुनातीरकल्पागकुञ्जां ।
कृष्णं गोपैः सभायां विहितगुणिकलालोकनं स्निग्धमात्रा
यत्नादानीय संशायितमथ निभृतं प्राप्तकुञ्जं स्मरामि

3.10

ताव् उत्कौ लब्ध-सङ्घौ बहु-परिचरणैर् वृन्दयाराध्यमानौ
गानैर् नर्म-प्रहेली-सुलपन-नटनैः रास-लास्यादि-रङ्गैः ।
प्रेष्ठालीभिर् लसन्तौ रति-गत-मनसौ मृष्ट-माध्वीक-पानौ
क्रीडा-चार्यौ निकुञ्जे विविध-रति-रण उद्धत्य विस्तारितान्तौ

3.11

ताम्बूलैर् गन्ध-माल्यैर् व्यजन-हिम-पयः-पाद-संवाहनाद्यैः
प्रेम्णा संसेव्यमानौ प्रणयि-सहचरी-सञ्चयेनाप्त-शातौ ।
वाचा कान्तैरणाभिर् निभृत-रति-रसैः कुञ्ज-सुप्तालि-सङ्घौ
राधा-कृष्णौ निशायां सु-कुसुम-शयने प्राप्त-निद्रौ स्मरामि

3.15

इति श्री-रूप-गोस्वामि-विरचिता स्मरण-पद्धतिः ।
श्री-रूपो जयति ।
इति स्मरण-मङ्गलं समाप्तम् ।
इति चतुर्थ-कक्षा
पञ्चम-कक्षा
अथ परमैश्वर्य-माधुर्य-पीयूषामृत-वारिधेः स्वयं भगवतः कतमं
तद्-धाम यत्रासौ भगवान् विहरति । इत्य् अपेक्षायाम् आहाकरे-
यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये ।
व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥
तथा हि स्कान्दे-
या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।
तास् तथा सन्ति वैकुण्ठे तत्-तल्-लीलार्थम् आदृताः ॥ इत्य् आदि ।
तद्-व्यवस्थाम् आहाकारे (ल्भाग् 1.4.497-8, 502)-
धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा ।
माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च ॥
यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् ।
तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥
अस्यार्थः-गोकुल-वैभवं गोइकुलैश्वर्यं प्रकाश-रूपम् । तस्य गोकुलस्य तद्-
आत्म-वैभवत्वं स गोलोक आत्मनः स्वस्य वैभवं यस्य । तन्-महिमोन्नतेस्
तस्माद् गोलोकान् महिमोन्नतेर् हेतोः । अन्यथा गोलोकस्य गोकुलाप्रकट-
प्रकाशत्वे स्थान-चतुष्टयता-सिद्धिः । यद्य् अप्रकटत्वेन स्थानत्वात् तदा
मधुपुरी-द्वारकयोर् अप्रकट-प्रकाशाभ्यां स्थान-षट्ता स्यात् । तर्हि गोलोकस्य
कुत्र स्थितिर् इत्य् आह । पर-व्योमोपरि सर्वोर्ध्व-भाग एव । श्री-ब्रह्म-
संहितायाम्-
गोलोक-नाम्नि निज-धाम्नि तले च तस्य
देवि महेश-हरि-धामसु तेषु तेषु ।
ते ते प्रभाव-निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.43] इति ।
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो । इत्य् आदि ।
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ इत्य् आदि ।
अतएव श्री-भागवते (10.2.7) गच्छ देवि व्रजं भद्रे इति, श्री-चैतन्य-चरितामृते
(आदि 4.29) मो-विषये गोपी-गण्र उपपति-भावे इत्य् आदि प्रकट-लीलानुसारेण श्री-
गोलोक-नाथ-वाक्यम् ।
अत्र गोलोके श्र्य्-आदयोऽनुवाद-रूपाः । कान्तादयो विधेय-रूपाः । परम् अपीति
गोलोके श्वेतद्वीप-वैकुण्ठादयोऽप्य् अनुवाद-रूपाः । वृन्दावन-गोकुलादयो
विधेय-रूपाः । ततः कृष्णोऽयं नारायणस्य विलासी गोलोक-पर-व्योमोपरि वर्तत
इति दृष्ट्या जनानां झटिति प्रवृत्ति-दुर्घटा स्यात् । अतएव तद्-गत परिकराणाम्
अयं सर्वेश्वरोऽस्माकं प्रभुर् इति सदा स्फूर्तिः ।
किं च, गोलोक-गत कैशोर-लीलाया ऐश्वर्य-मयत्वात् तल्-लीला-वलितस्य गोलोक-
नाथस्य बाल्य-पौगण्ड-धर्माभावात् कैशोर-गतत्वेन लीलाया एक-विधत्वम्
। तस्मिंश् च सति, अयं परम-पुरुषः शक्तिमान् वयम् अस्य शक्तयः इति स्फूर्तेः
पाणि-ग्रहणाभावाच् च दानाभिसारादयो लीला न सन्ति । तत्र निमेषार्धाख्यो वा
व्रजति न हि यत्रापि समयः इति ।
दिन-रात्रेर् अभावाद् रात्रि-विलासित्वाभावेन तल्-लीलानाम् अभावः । गौण-समञ्जस
रति-मतीभिस् तद्-गत-स्त्रीभिस् तद् अयोग्यत्वात् । तस्माद् द्वारकातोऽपि गोलोकस्य
न्यूनत्वम् । तथापि श्री-दास-गोस्वामिनः श्री-स्तवावल्यां (व्रज-विलासे 5)-
वैकुण्ठाद् अपि सोदरात्मज-वृता द्वारवती सा प्रिया
यत्र श्री-शत-निन्दि-पट्ट-महिषी-वृन्दैः प्रभुः खेलति ।
प्रेम-क्षेत्रम् असौ ततोऽपि मथुरा श्रेष्ठा हरेर् जन्मतो
यत्र श्री-व्रज एव राजतितरां ताम् एव नित्यं भजे ॥
एवं परस्पर-सम्बन्धत्वेन मथुरातोऽपि द्वारकाया न्यूनत्वम् । अथ श्रुति-
स्मृति-संमतं सर्वोत्कृष्टं तु माथुरम् । यथा पद्म-पुराणे-
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी ।
एवं सप्त-पुरीणां तु सर्वोत्कृष्टं तु माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठ-भुवनोत्तमः ॥ इति ।
अतएव श्री-बृहद्-भागवतामृते गोलोक-गत-गोप-कुमारस्य तद्-गत-परिकराणां
सञ्जायमानादर-गौरव-दर्शनेन स्व-मनो न तृप्येत् । तद् यथा (2.4.110-113)-
तम् एव सर्वज्ञ-शिरोमणिं प्रभुं
वैकुण्ठ-नाथं किल नन्द-नन्दनम् ।
लक्ष्म्यादि-कान्तं कलयामि राधिका-
मुखाश् च दासादि-गणान् व्रजार्भकान् ॥
तथाप्य् अस्यां व्रज-क्ष्मायां प्रभुं स-परिवारकम् ।
विहरन्तं तथा नेक्षे भिद्यते तेन मन्मथः ॥
कदापि तत्रोपवनेषु लीलया
तथा लसन्तं निचितेषु गो-गणैः ।
पश्याम्य् अमूं कर्ह्य् अपि स्थितं
निजासने स्व-प्रभुवच् च सर्वथा ॥
तथापि तस्मिन् परमेश-बुद्धेर्
वैकुण्ठ-नाथे किल नन्द-नन्दने ।
सञ्जायमानादर-गौरवेण
तत्-प्रेम-हान्या स्व-मनो न तृप्येत् ॥[*एन्द्नोते #10]
श्री-स्तव-मालायां च (नन्दापहरणं 19)-
लोको रम्यः कोऽपि वृन्दाटवीतो
नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् ।
यो वैकुण्ठं सुष्ठु सन्दर्श्य भूयो
निन्ये गोष्ठं पातु स त्वां मुकुन्दः ॥
यथा श्री-दशमे (10.28.10)-
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥
अथ टीका-विस्मितः परम-माधुर्याविष्टत्वेनैश्वर्यानुसन्धानाभावात् । अतः
परम-कारुणिकः श्री-कृष्णः स्व-बन्धु-वर्गं नन्दादिकं गोलोकं सन्दर्श्य
पुनर् गोकुलं नीतवान् । गोलोकं भू-वृन्दावनादिकं श्री-दशमे नन्दादीनां
वैकुण्ठ-दर्शनानन्तरं व्रजागमनं व्यक्तम् एवास्ति । अतएव स्वयं-प्रकाश-
भू-वृन्दावनस्य सदा प्रकटाप्रकटत्वे विराजमानत्वे सस्माद् गोकुलाख्याद्
वृन्दावनाद् गोलोकय पृथक्त्वं न्यूनत्वं च स्पष्टम् मधुरैश्वर्ययोर्
अभावात् । मधुरैश्वर्यं च-ये दैत्या दुःशका हन्तुं इत्य् आदेः । क्वचिद् ऐश्वर्य-
साम्येन धाम्नोर् गोलोक-गोष्ठयोर् ऐक्यं दर्शितम् इन्द्राद्यैर् माधुर्याणाम्
अकोविदैः । ऐक्यं तु गोलोकस्य गोकुल-वैभव-प्रकाश-रूपत्वात् । प्रकाशस् तु न
भेदेषु गण्यते स हि नो पृथक् (ल्भाग् 1.1.20), तत्र च करोति याः प्रकाशेषु
कोटिशोऽप्रकटेष्व् अपि (ल्भाग् 1.5.451) ।
यद्यपि स्वयं-प्रकाश-प्रकाश्यानां मध्ये भेदो गण्यते तथापि चैतन्य-
चरितामृते (मध्य 8.83) तटस्थ ह-इया विचारिले आछे तरतम । तत्र च महा-
रास-प्रसङ्गे तार मध्ये एक मूर्ति रहे राधा-पाश इति पूर्वे विचारितोऽस्ति । यद् वा
विशेषतो श्री-चरितामृते मध्य-लीलायां विंशति-परिच्छेदे श्री-सनातन-गोस्वामि-
शिक्षा-प्रसङ्गे विवृतम् अस्ति । अथवा अचिन्त्य-शक्ति-प्रभावेण समाधेयः ।
किं च-
यथा चतुर्भुजत्वेऽपि न त्यजेत् कृष्ण-रूपत्वम् ।
अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च ॥ (ल्भाग् 1.1.23)
इत्य्-आदि-न्यायात् ब्रह्म-मोहनादि-कर्तृत्वाभावात् मथुरा-द्वारका-गत-श्री-कृष्ण-
प्रकाशे श्री-गोकुल-गत-पूर्णतम-रूप-माधुर्याभावेऽपि प्रकाशत्वम्, तथा
गोलोकेऽपि श्री-वृन्दावन-गत-मधुरैश्वर्य-माधुर्ययोर् अभावेऽपि प्रकाशत्वम्
। अप्रपञ्च-प्रपञ्च-गोचरत्वम् अप्राकृत-प्राकृत इव श्री-गोकुल-
भूरूपोऽनुवादतया चिन्तामण्य्-आदि-रूपो विधेयतया, स तु माथुर-भू-रूपः

परिच्छिन्नोऽप्य् अथाद्भुतः इत्य् आदेः ।
माथुरो श्री-गोकुलः-
माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च (ल्भाग् 1.5.497) इत्य् आदेः ।
अतेवास्य पाद्मे च श्रूयते नित्य-रूपता ।
नित्यं मे मथुरां विद्धि वनं वृन्दावनं तथा इति ।
अत्रैवाजाण्डमालापि पर्याप्तिम् उपगच्छति ।
वृन्दावन-प्रतीकेऽपि यानुभूतैव वेधसा ॥
इत्य् अतो रास-लीलायां पुलिने तत्र यामुने ।
प्रमदा-शत-कोट्योऽपि ममूर् यत् तत् किम् अद्भुतम् ॥
स्वैः स्वैर् लीला-परिकरैर् जनैर् दृश्यानि नापरैः ।
तत्-तल्-लीलाद्य्-अवसरे प्रादुर्भावोचितानि हि ॥
आश्चर्यम् एकदैकत्र वर्तमानान्य् अपि ध्रुवम् ।
परस्परम् असंपृक्त-स्वरूपाण्य् एव सर्वथा ॥
कृष्ण-बाल्यादि-लीलाभिर् भूषितानि समन्ततः ।
शैल-गोष्ठ-वनादीनां सन्ति रूपाण्य् अनेकशः ॥
लीलाढ्योऽपि प्रदेशोऽस्य कदाचित् किल कैश्चन ।
शून्य एवेक्षते दृष्टि-योग्यैर् अप्य् अपरैर् अपि ॥
अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च ।
अविचिन्त्य-प्रभावत्वाद् अत्र किं च न दुर्घटम् ॥
(ल्भाग् 1.5.506-7, 509-515)
चतुर्धा माधुरी तस्य व्रज एव विराजते ।
ऐश्वर्य-क्रीडयोर् वेणोस् तथा श्री-विग्रहस्य च ॥ (ल्भाग् 1.5.526)
तस्मात् या यथा भुवि वर्तन्ते इत्यादि-दिशा द्वारका मथुरा-गोकुल-नामानि
स्वतन्वाण्य् एव भगवतो धामानि । गोकुल-तद्-वैभव-प्रकाशत्वेन प्रसिद्धो
गोलोक इति नाम पर-व्योमोपरीति शास्त्र-प्रसिद्धं, यथा हरि-वंशे शक्र-
वचनम्-
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।
गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह्व् 2.19.29-35] इति ।
इन्द्रस् तु ब्रह्म-मोहनादौ गोकुल-परमैश्वर्यं ज्ञात्वापि परम-माधुर्य-
दर्शनेन ब्रह्मण इव पुनर् मोहितः सन् तस्यैवाश्चर्य-प्रकाशं गोलोकं
वर्णयित्वा तस्यापि गोकुलेन सहाभेदवन् निर्देशेनाह-- स तु लोकस् त्वया कृष्ण इति
। अतः श्री-कृष्ण-वाक्यं श्री-भागवते (10.25.18)-
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ इति ।
तस्माद् युक्तम् एव-यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये इति । किं च-
मच्-छरणं मन्-नाथं मत्-परिग्रहम् इति विशेषणाद् अत्र ब्रह्मादीनाम् अप्य्
अधिकारो नास्ति, का कथान्येषाम् ? दृश्यते चान्यत्र दश-योजनात्मके श्री-
पुरुषोत्तम-क्षेत्रे शङ्काकारे क्रोश-पञ्चके तद्-देशाधिपतेः
स्वतन्त्रेणाधिकारो नास्ति । किं बहुना, अतः स्वयं-प्रकाश-भू-वृन्दावनस्य
परम-प्राप्यत्वं परम-रहस्यत्वं परम-रमणीयत्वं च तथा श्री-
भागवते (10.21.10)-
वृन्दावने सखि भुवो वितनोति कीर्तिं
यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि ।
पुनस् तत्रैव ब्रह्म-स्तवे (10.14.34)-
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् ।
यज् जीवितं तु निखिलं भगवान् मुकुन्दस्
त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥
पुनस् तत्रैव श्रीमद्-उद्धवोक्तौ (10.47.61)-
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् । इति ।
आदि-पुराणे-
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिका पार्थ यत्र राधाभिधा मम ॥
तथा हि-
व्रज न गोपिका भिन्ना मत्तः पश्यन्ति केवलम् ।
गोपा गावश् च तत्रत्या ममैवानन्द-विग्रहाः ॥
ये व्रजस्थान् अहो भिन्नान् मत् पश्यन्ति तु केचन ।
न तेषां मूढ-बुद्धीनां गतिर् नैव परत्र च ॥
ब्रह्म-संहितायाम् (5.56)-
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
श्री-गोपाल-तापन्यां च (2.36)-तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी इति ।
बृहद्-गौतमीये-
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मे ऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥
वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥
स्कान्दे-
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥
यथा लक्ष्मीः प्रियतमा यथा भक्ति-परा नराः ।
गोविन्दस्य प्रिअयतमं तथा वृन्दावनं भुवि ॥
तत्र श्री-वृन्दावने श्री-गोविन्द-स्थलाख्यं । यथा श्री-गोविन्द-लीलामृते (21.28)-
श्री-गोविन्द-स्थलाख्यं तटम् इदम् अमलं कृष्ण-संयोग-पीठं
वृन्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पीठ-स्थलाभम् ।
कुञ्ज-श्रेणी-दलाढ्यं मणिमय-गृह-सत्-कर्णिकं स्वर्ण-रम्भा-
श्रेणी-किञ्जल्कम् एषा दश-शत-दल-राजीव-तुल्यं ददर्श ॥
अतएव स्मरण-मङ्गले कुञ्जात् इत्य् अत्र कुञ्जाद् इति कुञ्ज-प्राधान्यात् श्री-गोविन्द-
स्थल-गतः कुञ्जो ज्ञेय इति ।
स्कान्दे मथुरा-खण्डे (मथुरा-माहात्म्ये 399-401)-
तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम्
तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ।
भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥
वृन्दावने महा-सद्म यैर् दृष्टं पुरुषोत्तमैः ।
गोविन्दस्य मही-पाल ते कृतार्था महीतले ॥
तत्र योग-पीठे श्री-गोविन्द-देवस्य ध्यानं, यथा क्रम-दीपिकायाम् (3.1-36)-
अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्-
प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।
प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः
स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥1
विकाशि-सुमनो-रमास्वादन-मञ्जुलैः सञ्चरच्-
छिलिमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।
कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर्
विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥2
कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्
विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः ।
प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां
विलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥3
प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ-

क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् ।
स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं
तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥4
सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्
अधोऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः ।
प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां
स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥5
तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-
पीठेऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य ।
उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये
सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥6
सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज-
प्रत्यग्र-नील-जलजन्म-समान-भासम् ।
सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं
राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥7
आपूर्ण-शारद-गताङ्कुश-शाङ्क-बिम्ब-
कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।
रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-
गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥8
सिद्नूर-सुन्दरतराधरम् इन्दु-कुन्द-
मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।
वन्य-प्रवाल-कुसुम-प्रचयावक् प्त-
ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥9
मत्त-भ्रमर-जुष्ट-विलम्बमान-
सन्तान-कप्र-सव-दाम-परिष्कृतांसम् ।
हारावली-भगण-राजित-पीवरोरो-
व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥10
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम्
आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।
आबन्धुरोदरम् उदार-गम्भीर-नाभिं
भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥11
नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-
ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।
द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम्
आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥12
चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ-
कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।
माणिक्य-दर्पण-लसन्-नखराजि-राजद्-
रत्नाङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥13
मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-
संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।
लावण्य-सार-समुदाय-विनिर्मिताङ्ग-
सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥14
आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-
लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।
शश्वद्-द्रवी-जृत-विकृष्ट-समस्त-जन्तु-
सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम्

3.23

अथ सुललित-गोप-सुन्दरीणां
पृथु-निविवीष-नितम्ब-मन्थराणाम् ।
गुरु-कुच-भर-भङ्गुरावलग्न-
त्रिवलि-विजृम्भित-रोम-राजि-भाजाम्

3.24

तद्-अतिमधुर-चारु-वेणु-वाद्या-
मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् ।
मुकुल-विसर-रम्य-रूढ-रोमोद्-
गम-समलङ्कृत-गात्र-वल्लरीणाम्

3.25

तद्-अतिरुचिर-मन्द-हास-चन्द्रा-
तप-परिजृम्भित-राग-वारिणाशेः ।
तरलतर-तरङ्ग-भङ्ग-विप्रुट्-
प्रकर-सम-श्रम-बिन्दु-सन्ततानाम्

3.26

तद्-अतिललित-मन्द-चिल्लि-चाप
च्युत-निशितेक्षण-मार-वाण-वृष्ट्या ।
दलित-सकल-मर्म-विह्वलाङ्ग-
प्रविसृत-दुःसह-वेपथु-व्यथानाम्

3.27

तद्-अतिरुचिर-कर्म-रूप-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् ।
प्रणय-सलिल-पूर-वाहिनीनाम्
अलस-विलोल-विलोचनाम्बुजाभ्याम्

3.28

विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्-
माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।
मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्-
नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम्

3.29

स्खलित-ललित-पादाम्भोज-मन्दाभिघात-
क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् ।
चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-
द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम्

3.30

द्राघिष्ठ-श्वसन-समीरणाभि-ताप-
प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् ।
नानोपायन-विलसत्-कराम्बुजानाम्
आलीभिः सतत-निषेवितं समन्तात्

3.31

तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज-
स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् ।
तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम्

3.32

गोपी-गोप-पशूनां बहिः
स्मरेद् अग्रतोऽस्य गीर्वाण-घटां ।
वित्तार्थिनीं विरिञ्चि-त्रिनयन-
शतमन्यु-पूर्विकां स्तोत्र-पराम्

3.33

तद्-दक्षिणतो मुनि-निकरं
दृढ-धर्म-वाञ्छम् आम्नाय-परम् ।
योगीन्द्रान् अथ पृष्ठे मुमुक्ष-
माणान् समाधिना सनकाद्यान्

3.34

सव्ये सकान्तान् अथ यक्ष-सिद्ध-
गन्धर्व-विद्याधर-चारणांश् च ।
सकिन्नरान् अप्सरसश् च मुख्याः
कामार्थिनो नर्तन-गीत-वाद्यैः

3.35

शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं
सौदामनी-तति-पिशङ्ग-जटा-कलापम् ।
तत्-पाद-पङ्कज-गताम् अचलाञ्च भक्तिं
वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम्

3.36

नाना-विध-श्रुति-गणान्वित-सप्त-राग-
ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।
संप्रीणयन्तम् उदिताभिर् अमुं महत्या
सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम्

3.4

इह पद्म-पुराणीयश् चाध्यायो (5.69.4-118) लिख्यते क्रमात्-
पार्वत्य् उवाच -
अनन्त-कोटि-ब्रह्माण्ड-तद्-बाह्याभ्यन्तर-स्थितेः ।
विष्णोः स्थानं परं तेषां प्रधानं वरम् उत्तमम्

3.5

यत् परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् ।
तत् सर्वं श्रोतुम् इच्छामि कथयस्व महा-प्रभो

3.6

ईश्वर उवाच -
गुह्याद् गुह्यतरं गुह्यं परमानन्द-कारकम् ।
अत्यद्भुतं रहः स्थानम् आनन्दं परमं परम्

3.7

दुर्लभानां च परमं दुर्लभं मोहनं परम् ।
सर्व-शक्ति-मयं देवि सर्व-स्थानेषु गोपितम्

3.8

सात्वतां स्थान-मूर्द्धन्यं विष्णोर् अत्यन्त-दुर्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि-संस्थितम्

3.9

पूर्ण-ब्रह्म सुखैश्वर्यं नित्यम् आनन्दम् अव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि

3.10

गोलोकैश्वर्यं यत् किञ्चिद् गोकुले तत्-प्रतिष्ठितम् ।
वैकुण्ठ-वैभवं यद् वै द्वारिकायां प्रतिष्ठितम्

3.11

यद् ब्रह्म परमैश्वर्यं नित्यं वृन्दावनाश्रयम् ।
कृष्ण-धाम परं तेषां वन--मध्ये विशेषतः

3.12

तस्मात् त्रैलोक्य-मध्ये तु पृथ्वी धन्येति विश्रुता ।
यस्मान् माथुरकं नाम विष्णोर् एकान्त-वल्लभम्

3.13

स्व-स्थानम् अधिकं नाम-धेयं माथुर-मण्डलम् ।
निगूढं विविधं स्थानं पुर्य्-अभ्यन्तर-संस्थितम्

3.14

सहस्र-पत्र-कमलाकारं माथुर-मण्डलम् ।
विष्णु-चक्र-परिभ्रामाद् धाम वैष्णवम् अद्भुतम्

3.15

कर्णिका-पर्ण-विस्तारं रहस्य-द्रुमम् ईरितम् ।
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात्

3.16

भद्र-श्री-लोह-भाण्डीर-महा-ताल-खदीरकाः ।
बकुलं कुमुदं काम्यं मधु वृन्दा वनं तथा

3.17

द्वादशैतावती संख्या कालिन्द्याः सप्त-पश्चिमे ।
पूर्वे पञ्च-वनं प्रोक्तं तत्रास्ति गुह्यम् उत्तमम्

3.18

महारण्यं गोकुलाख्यं मधु वृन्दा-वनं तथा ।
अन्यच् चोपवनं प्रोक्तं कृष्ण-क्रीडा-रस-स्थलम्

3.19

कदम्ब-खण्डनं नन्द-वनं नन्दीश्वरं तथा ।
नन्द-नन्दन-खण्डं च पलाशाशोक-केतकी

3.20

सुगन्ध-मानसं कैलम् अमृतं भोजन-स्थलम् ।
सुख-प्रसाधनं वत्स-हरणं शेष-शायिकम्

3.21

श्याम-पूर्वो दधि-ग्रामश् चक्र-भानु-पुरं तथा ।
संकेतं द्विपदं चैव बाल-क्रीडन-धूसरम्

3.22

काम-द्रुमं सुललितम् उत्सुकं चापि काननम् ।
नाना-विध-रस-क्रीडा नाना-लीला-रस-स्थलम्

3.23

नाग-विस्तार-विष्टम्भं रहस्य-द्रुमम् ईरितम् ।
सहस्र-पत्र-कमलं गोकुलाख्यं महत्-पदम्

3.24

कर्णिका तन् महद् धाम गोविन्द-स्थानम् उत्तमम् ।
तत्रोपरि स्वर्ण-पीठे मणि-मण्डप-मण्डितम्

3.25

कर्णिकायां क्रमाद् दिक्षु विदिक्षु दलम् ईरितम् ।
यद् दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम्

3.26

तस्मिन् दले महा-पीठं निगमागम-दुर्गमम् ।
योगीन्द्रैर् अपि दुष्प्रापं सर्वात्मा यच् च गोकुलम्

3.27

द्वितीयं दलम् आग्नेय्यां तद् रहस्य-दलं तथा ।
संकेतं द्विपदं चैव कुटी द्वौ तत्-कुले स्थितौ

3.28

पूर्वं दलं तृतीयं च प्रधान-स्थानम् उत्तमम् ।
गङ्गादि-सर्व-तीर्थानां स्पर्शाच् छत-गुणं स्मृतम्

3.29

चतुर्थं दलम् ऐशान्यां सिद्ध-पीठेऽपि तत्- पदम् ।
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत्

3.30

वस्त्रालङ्कारहरणं तद्दलेसमुदाहृतम् ।
उत्तरेपञ्चमं प्रोक्तं दलं सर्वदलोत्तमम्

3.31

द्वादशादित्यमत्रैवदलं चकर्णिकासमम् ।
वायव्यां तु दलं षष्ठं तत्र काली-ह्रदः स्मृतः

3.32

दलोत्तमोत्तमं चैव प्रधानं स्थानम् उच्यते ।
सर्वोत्तम-दलं चैव पश्चिमे सप्तमं स्मृतम्

3.33

यज्ञ-पत्नी-गणानां च तद्-ईप्सित-वर-प्रदम् ।
अत्रासुरोऽपि निर्वाणं प्राप त्रिदश-दुर्लभम्

3.34

ब्रह्म-मोहनम् अत्रैव दलं ब्रह्म-ह्रदावहम् ।
नैरृत्यां तु दलं प्रोक्तम् अष्टमं व्योम-घातनम्

3.35

शङ्खचूड-वधस् तत्र नाना-केलि-रस-स्थलम् ।
श्रुतम् अष्ट-दलं प्रोक्तं वृन्दारण्यान्तर-स्थितम्

3.36

श्रीमद्-वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम् ।
शिव-लिङ्गम् अधिष्ठानं दृष्टं गोपीश्वराभिधम्

3.37

तद्-बाह्ये षोडश-दलं श्रिया पूर्णं तम् ईश्वरम् ।
सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद् यथा क्रमम्

3.38

महत्-पदं महद्-धाम स्व-धामाधाव-संज्ञकम् ।
प्रथमैक-दलं श्रेष्ठं माहात्म्यं कर्णिका-समम्

3.39

तत्र गोवर्धन-गिरौ रम्ये नित्य-रसाश्रये ।
कर्णिकायां महा-लीला तल्-लीला-रस-गह्वरौ

3.40

यत्र कृष्णो नित्य-वृन्दा-काननस्य पतिर् भवेत् ।
कृष्णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाषितैः

3.41

दलं तृतीयम् आख्यातं सर्व-श्रेष्ठोत्तमोत्तमम् ।
चतुर्थं दलम् आख्यातं महाद्भुत-रस-स्थलम्

3.42

नन्दीश्वर-वनं रम्यं तत्र नन्दालयः स्मृतः ।
कर्णिका-दल-माहात्म्यं पञ्चमं दलम् उच्यते

3.43

अधिष्ठाताऽत्र गोपालो धेनु-पालन-तत्-परः ।
षष्ठं दलं यद् आख्यातं तत्र नन्द-वनं स्मृतम्

3.44

सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।
तत्राष्टमं ताल-वनं तत्र धेनु-वधः स्मृतः

3.45

नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।
कामारण्यं च दशमं पधानं सर्व-कारणम्

3.46

ब्रह्म-प्रसाधनं तत्र विष्णु-च्छद्म-प्रदर्शनम् ।
कृष्ण-क्रीडा-रस-स्थानं प्रधानं दलम् उच्यते

3.47

दलम् एकादशं प्रोक्तं भक्तानुग्रह-कारणम् ।
निर्माणं सेतु-बन्धस्य नाना-वन-मय-स्थलम्

3.48

भाण्डीरं द्वादश-दलं वनं रम्यं मनोहरम् ।
कृष्णः क्रीडा-रतस् तत्र श्री-दामादिभिर् आवृतः

3.49

त्रयोदशं दलं श्रेष्ठं तत्र भद्र-वरं स्मृतम् ।
चतुर्दश-दलं प्रोक्तं सर्व-सिद्धि-प्रद-स्थलम्

3.50

श्री-वनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।
कृष्ण-क्रीडा-दल-मयं श्री-कान्ति-कीर्ति-वर्धनम्

3.51

दलं पञ्चदशं श्रेष्ठं तत्र लोह-वनं स्मृतम् ।
कथितं षोडश-दलं माहात्म्यं कर्णिका-समम्

3.52

महा-वनं तत्र गीतं तत्रास्ति गुह्यम् उत्तमम् ।
बाल-क्रीडा-रतस् तत्र वत्स-पालैः समावृतः

3.53

पूतनादि-वधस् तत्र यमलार्जुन-भञ्जनम् ।
अधिष्ठाता तत्र बाल-गोपालः पञ्चमाब्दिकः

3.54

नाम्ना दामोदरः प्रोक्तः प्रेमानन्द-रसार्णवः ।
दलं प्रसिद्धम् आख्यातं सर्व-श्रेष्ठ-दलोत्तमम्

3.55

कृष्ण-क्रीडा च किञ्जल्की विहार-दलम् उच्यते ।
सिद्ध-प्रधान-किञ्जल्क-दलं च समुदाहृतम्

3.56

पार्वत्य् उवाच -
वृन्दारण्यस्य माहात्म्यं रहस्यं वा किम् अद्भुतम् ।
तद् अहं श्रोतुम् इच्छामि कथयस्व महा-प्रभो

3.57

ईश्वर उवाच -
कथितं ते प्रियतमे गुह्याद् गुह्योत्तमोत्तमम् ।
रहस्यानां रहस्यं यद् दुर्लभानां च दुर्लभम्

3.58

त्रैलोक्य-गोपितं देवि देवेश्वर-सुपूजितम् ।
ब्रह्मादि-वाञ्छितं स्थानं सुर-सिद्धादि-सेवितम्

3.59

योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैक-तत्-पराः ।
अप्सरोभिश् च गन्धर्वैर् नृत्य-गीत-निरन्तरम्

3.60

श्रीमद्-वृन्दावनं रम्यं पूर्णानन्द-रसाश्रयम् ।
भूरि-चिन्तामणिस् तोयम् अमृतं रस-पूरितम्

3.61

वृक्षं गुरु-द्रुमं तत्र सुरभी-वृन्द-सेवितम् ।
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्-दशांश-समुद्भवम्

3.62

तत्र कैशोर-वयसं नित्यम् आनन्द-विग्रहम् ।
गति-नाट्यं कलालाप-स्मित-वक्त्रं निरन्तरम्

3.63

शुद्ध-सत्त्वैः प्रेम-पूर्णैर् वैष्णवैस् तद्-वनाश्रितम् ।
पूर्ण-ब्रह्म सुखे मग्नं स्फुरत्-तन्-मूर्ति-तन्-मयम्

3.64

मत्त-कोकिल-भृङ्गाद्यैः कूजत्-कल-मनोहरम् ।
कपोल-शुक-सङ्गीतम् उन्मत्तालि-सहस्रकम्

3.65

भुजङ्ग-शत्रु-नृत्याढ्यं सकलामोद-विभ्रमम् ।
नाना-वर्णैश् च कुसुमैस् तद्-रेणु-परिपूरितम्

3.66

पूर्णेन्दु-नित्याभ्युदयं सूर्यमंदांशुसेवितम् ।
अदुःखं दुःख-विच्छेदं जरा-मरण-वर्जितम्

3.67

अक्रोधं गत-मात्सर्यम् अभिन्नम् अनहङ्कृतम् ।
पूर्णानन्दामृत-रसम् पूर्ण-प्रेम-सुखार्णवम्

3.68

गुणातीतं महद्-धाम पूर्ण-प्रेम-स्वरूपकम् ।
वृक्षादि-पुलकैर् यत्र प्रेमानन्दाश्रु-वर्षितम्

3.69

किं पुनश् चेतना-युक्तैर् विष्णु-भक्तैः किम् उच्यते ।
गोविन्दाङ्घ्रि-रजः स्पर्शान् नित्यं वृन्दावनं भुवि

3.70

सहस्र-दल-पद्मस्य वृन्दारण्यं वराटकम् ।
यस्य स्पर्शन-मात्रेण पृथ्वी धन्या जगत्-त्रये

3.71

गुह्याद् गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि ।
अक्षरं परमानन्दं गोविन्द-स्थानम् अव्ययम्

3.72

गोविन्द-देहतोऽभिन्नं पूर्ण-ब्रह्म सुखाश्रयम् ।
मुक्तिस् तत्र रजः स्पर्शात् तन्-माहात्म्यं किम् उच्यते

3.73

तस्मात् सर्वात्मना देवि हृदि-स्थं तद् वनं कुरु ।
वृन्दावन-विहारेषु कृष्णं कैशोर-विग्रहम्

3.74

कालिन्दी चाकरोद् यस्य कर्णिकायां प्रदक्षिणाम् ।
लीला-निर्वाण-गम्भीरं जलं सौरभ-मोहनम्

3.75

आनन्दामृत-तन्-मिश्र-मकरन्द-घनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर् नाना-वर्ण-समुज्जवलम्

3.76

चक्रवाकादि-विहगैर् मञ्जु-नाना-कल-स्वनैः ।
शोभमानं जलं रम्यन्तरं गाति-मनोरमम्

3.77

तस्योभय-तटी-रम्या शुद्ध-काञ्चन-निर्मिता ।
गङ्गा-कोटि-गुणा प्रोक्ता यत्र स्पर्श-वराटकः

3.78

कर्णिकायां कोटि-गुणो यत्र क्रीडा-रतो हरिः ।
कालिन्दी-कर्णिका कृष्णम् अभिन्नम् एक-विग्रहम्

3.79

पार्वत्य् उवाच
गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृत-विग्रह ।
तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे

3.80

ईश्वर उवाच
मध्ये वृन्दावने रम्ये-मञ्जु-मञ्जीर-शोभिते ।
योजनाश्रित-सद्-वृक्ष-शाखा-पल्लव-मण्डिते

3.81

तन्-मध्ये मञ्जु-भवने योग-पीठं समुज्जवलम् ।
तद्-अष्ट-कोण-निर्माणं नाना-दीप्ति-मनोहरम्

3.82

तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् ।
तस्मिन् नष्ट-दलं पद्मं कर्णिकायां सुखाश्रयम्

3.83

गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते ।
श्रीमद्-गोविन्द-मन्त्र-स्थ-बल्लवी-वृन्द-सेवितम्

3.84

दिव्य-व्रज-वयो-रूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम्

3.85

यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् ।
अनादिम् आदिं सर्वेषां नन्द-गोप-प्रियात्मजम्

3.86

श्रुति-मृग्यम् अजं नित्यं गोपी-जन-मनोहरम् ।
परं धाम परं रूपं द्विभुजं गोकुलेश्वरम्

3.87

बल्लवी-नन्दनं ध्यायेन् निर्गुणस्यैक-कारणम् ।
सुश्रीमन्तं नवं स्वच्छं श्याम-धाम मनोहरम्

3.88

नवीन-नीरद-श्रेणी-सुस्निग्धं मञ्जु-कुण्डलम् ।
फुल्लेन्दीवर-सत्-कान्ति-सुख-स्पर्शं सुखावहम्

3.89

दलितां जन-पुञ्जाभ-चिक्कणं श्याम-मोहनम् ।
सुस्निग्ध-नील-कुटिलाशेष-सौरभ-कुन्तलम्

3.90

तद्-ऊर्ध्वं दक्षिणे काले श्याम-चूडा-मनोहरम् ।
नाना-वर्णोज्ज्वलं राजच्-छिखण्डि-दल-मण्डितम्

3.91

मन्दार-मञ्जु-गो-पुच्छा-चूडं चारु-विभूषणम् ।
क्वचिद् बृहद्-दल-श्रेणी-मुकुटेनाभिमण्डितम्

3.92

अनेक-मणि-माणिक्य-किरीट-भूषणं क्वचित् ।
लोलालक-वृतं राजत्-कोटि-चन्द्र-समाननम्

3.93

कस्तूरी-तिलकं भ्राजन्-मञ्जु-गो-रोचनान्वितम् ।
नीलेन्दीवर-सुस्निग्ध-सुदीर्घ-दल-लोचनम्

3.94

आनृत्यद्-भ्रू-लताश्लेष-स्मितं साचि-निरीक्षणम् ।
सुचारून्नत-सौन्दर्य-नासाग्राति-मनोहरम्

3.95

नासाग्र-गज-मुक्तांशु-मुग्धीकृत-जगत्-त्रयम् ।
सिन्दूरारुण-सुस्निग्धाधरौष्ठ-सुमनोहरम्

3.96

नाना-वर्णोल्लसत्-स्वर्ण-मकराकृति-कुण्डलम् ।
तद्-रश्मि-पुञ्ज-सद्-गण्ड-मुकुराभ-लसद्-द्युतिम्

3.97

कर्णोत्पल-सुमन्दार-मकरोत्तंस-भूषितम् ।
श्री-वत्स-कौस्तुभोरस्कं मुक्ता-हार-स्फुरद्-गलम्

3.98

विलसद्-दिव्य-माणिक्यं मञ्जु-काञ्चन-मिश्रितम् ।
करे कङ्कण-केयूरं किङ्किणी-कटि-शोभितम्

3.99

मञ्जु-मञ्जीर-सौन्दर्य-श्रीमद्-अङ्घ्रि-विराजितम् ।
कर्पूरागुरु-कस्तूरी-विलसच्-चन्दनादिकम्

3.100

गोरोचनादि-संमिश्र-दिव्याङ्ग-राग-चित्रितम् ।
स्निग्ध-पीत-पटी-राजत्-प्रपदां दोलितां जनम्

3.101

गम्भीर-नाभि-कमलं रोम-राजी-नत-स्रजम् ।
सुवृत्त-जानु-युगलं पाद-पद्म-मनोहरम्

3.102

ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रि-तल-शोभितम् ।
नखेन्दु-किरण-श्रेणी-पूर्ण-ब्रह्मैक-कारणम्

3.103

केचिद् वदन्ति तस्यांशं ब्रह्म चिद्-रूपम् अद्वयम् ।
तद्-दशांशं महा-विष्णुं प्रवदन्ति मनीषिणः

3.104

योगीन्द्रैः सनकाद्यैश् च तद् एव हृदि चिन्त्यते ।
त्रि-भङ्गं ललिताशेष-निर्माण-सार-निर्मितम्

3.105

तिर्यग्-ग्रीव-जितानन्त-कोटि-कन्दर्प-सुन्दरम् ।
वामांसार्पित-सद्-गण्ड-स्फुरत्-काञ्चन-कुण्डलम्

3.106

सहापाङ्गेक्षण-स्मेरं कोटि-मन्मथ-सुन्दरम् ।
कुञ्चिताधर-विन्यस्त-वंशी-मञ्जु-कल-स्वनैः

3.107

जगत्-त्रयं मोहयन्तं मग्नं प्रेम-सुधार्णवे ।
श्री-पार्वत्य् उवाच -
परमं कारणं कृष्णं गोविन्दाख्यं महत्-पदम्

3.108

वृन्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् ।
तत् तद् रहस्य-माहात्म्यं किम् आश्चर्यं च सुन्दरम्

3.109

तद् ब्रूहि देवदेवेश श्रोतुम् इच्छाम्य् अहं प्रभो ।
ईश्वर उवाच -
यद्-अङ्घ्रि-नख-चन्द्रांशु-महिमान्तो न गम्यते

3.110

तन्-माहात्म्यं कियद् देवि प्रोच्यते त्वं मुदा शृणु ।
अनन्त-कोटि-ब्रह्माण्डे अनन्त-त्रिगुणोच्छ्रये

3.111

तत्-कला-कोटि-कोट्य्-अंशा ब्रह्म-विष्णु-महेश्वराः ।
सृष्टि-स्थित्य्-आदिना युक्तास् तिष्ठन्ति तस्य वैभवाः

3.112

तद्-रूप-कोटि-कोट्य्-अंशाः कलाः कन्दर्प-विग्रहाः ।
जगन्-मोहं प्रकुर्वन्ति तद्-अण्डान्तर-संस्थिताः

3.113

तद्-देह-विलसत्-कान्ति-कोटि-कोट्य्-अंशको विभुः ।
तत्-प्रकाशस्य कोट्य्-अंश-रश्मयो रवि-विग्रहाः

3.114

तस्य स्व-देह-किरणैः परानन्द-रसामृतैः ।
परमामोद-चिद्-रूपैर् निर्गुणस्यैक-कारणैः

3.115

तद्-अंश-कोटि-कोट्य्-अंशा जीवन्ति किरणात्मकाः ।
तद्-अङ्घ्रि-पङ्कज-द्वन्द्व-नख-चन्द्र-मणि-प्रभाः

3.116

आहुः पूर्ण-ब्रह्मणोऽपि कारणं वेद-दुर्गमम् ।
तद्-अंश-सौरभानन्त-कोट्य्-अंशो विश्व-मोहनः

3.117

तत्-स्पर्श-पुष्प-गन्धादि-नाना-सौरभ-सम्भवः ।
तत्-प्रिया प्रकृतिस् त्व् आद्या राधिका कृष्ण-वल्लभा

3.118

तत्-कला-कोटि-कोट्य्-अंशा दुर्गाद्यास् त्रि-गुणात्मिकाः ।
तस्या अङ्घ्रि-रजसः स्पर्शात् कोटि-विष्णुः प्रजायते

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc