भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 10

10.1

पुष्पवति वसन्ते च-इति बीजं प्रतिक्राम्य र-युतं तथा मूल-मन्त्र-लक्ष-जपेन
सिद्धिः स्यात् ।
इति सम्मोहन-तन्त्रे पञ्च-बाणेश्वरी-श्री-राधिका-मन्त्र-कथनम् ।
[ऊर्ध्वाम्नाय-तन्त्रे पञ्चाक्षरी-साधनम्]
अथाहं सम्प्रवक्ष्यामि राधां पञ्चाक्षरात्मिकाम् ।
यस्या विज्ञान-मात्रेण श्री-कृष्णं वशयेन् नरः

10.2

रमा-बीजं समुच्चार्य राधिके परम् उच्चरेत्
रसान्ता राधिका विद्या भक्तानां चिन्तितार्थदा

10.3

सनकोऽस्य ऋषिः प्रोक्तो जगती च्छन्द ईरितम् ।
श्री-राधा देवता प्रोक्ता विनियोगोऽखिलाप्तये

10.4

द्विर् आवृत्त्या तु मन्त्रस्य षड्-अङ्ग-न्यासम् आचरेत् ।
ध्यायेत् पद्मकरां गौरीं क्षीर-सागर-तीरगाम्

10.5

कृष्ण-कण्ठार्पित-करां स्मयमान-मुखाम्बुजाम् ।
मूर्ध्नि लोचनयोर् आस्ये हृदये च प्रविन्यसेत्

10.6

एकैक-क्रमतो वर्णान् पञ्चाक्षरम् अनूद्भवान् ।
मूलाधारे रमां न्यसेत् स्वाधिष्ठाने च राम् इति

10.7

मणिपूरे तृतीयं च न्यसेत् तूर्यम् अनाहते ।
विशुद्धे च रमां न्यस्येद् आज्ञायां सर्व-मन्त्रकम्

10.8

त्रि-कोणं बिन्दु-संयुक्तम्म् अष्ट-कोणं ततो लिखेत् ।
ततो भूपुरम् आलिख्य पीठ-पूजां समाचरेत्

10.9

बिन्दौ प्रपूजयेत् साक्षाद् वृषभानु-सुतां पराम् ।
त्रिकोणे पूजयेच् छ्यामां विशाखां ललिताम् अपि

10.10

कर्पूर-मञ्जरीं रूप-मञ्जरीं रस-मञ्जरीम् ।
लवङ्ग-मञ्जरीं प्रेम-मञ्जरीं रङ्ग-मञ्जरीम्

10.11

आनन्द-मञ्जरीं चैव तथैव रति-मञ्जरीम् ।
अष्ट-कोणे समापूज्य भूपुरे च दिग्-ईश्वरान्

10.12

सिद्धाष्टक-समायुक्तांस् ततः पुष्पाञ्जलिं क्षिपेत् ।
एवं कृत्वार्चनं मन्त्री जपेद् अयुत-मात्रकम्

10.13

यथोक्त-विहिते मन्त्रे पञ्च-वर्ण-प्रपूरिते ।
दीप-रजं तु संस्थाप्य सौरभेय-घृतान्वितम्

10.14

दशभिः सूत्रकैर् वर्ति संयोज्याखण्ड-रूपिणीम् ।
सौवर्णं राजतं वापि ताम्रं कांस्य-मयं तथा

10.15

अभावे मार्तिकं वापि दिव्यं दीपं प्रकल्पयेत् ।
साधारं स्थापयेद् यन्त्रं कूर्चिकां चापि तन्-मयीम्

10.16

कन्या-कर्तित-सूत्रेण व्रतिकां परिकल्पयेत् ।
यावत् पञ्च-दिनं कुर्याद् एवं विधिम् अनुत्तमम्

10.17

सर्वान् मनो-गतान् कामान् अवाप्नोति न संशयः ।
संग्रामे विषये चैव विवादेऽर्थ-साधने

10.18

अमूं प्रयोगम् आचर्य सद्यः सिद्धिम् अवाप्नुयात् ।
अन्येष्व् अपि च कार्येषु कुर्याद् एवं विधिं नरः

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc