साधनदीपिका · अध्याय 11
लं रं मं क्षं वं यं सं हं ह्रीं श्रीं एक-वर्णम् ।
लं इन्द्राय देवाधिपतये सायुधाय स-वाहनाय स-शक्तिकाय स-परिवाराय श्री-
राधिका-पार्षदाय नमः । इन्द्र-पादुकां पूजयामि नमस् तर्पयामि नमः ।
इत्य् ऊर्ध्वाम्नाये पञ्चाक्षरी-साधनं समाप्तम् ।
तत्र प्राणायामः-
आदाव् ऋषादि-न्यासः स्यात् कर-शुद्धिस् ततः परम् ।
अङ्गुलि-व्यापक-न्यासो हृद्-आदि-न्यास एव च ॥
ताल-त्रयं च दिग्-बन्धः प्राणायामस् ततः परम् ।
ध्यान-पूजा जपश् चैव सर्व-तन्त्रेष्व् अयं विधिः ॥
प्राणायामः-दक्षिण-नासा-पुटं निरुध्य वामनासा-पुटेन चतुर्वारं पूरके,
षोडश-वारं कुम्भके, द्वयं नासा-पुटं निरुध्याष्ट-वारं दक्ष-नासया
वायुं रेचयेत् ।
अथ सङ्कल्प-विधिः - श्री-विष्णुर् विष्णुर् नमोऽद्य अमुक-मासि अमुक-तिथौ
अमुक-गोत्रोऽमुक-दासः श्री-राधिका-देवता अमुक-मन्त्र-सिद्धि-कामोऽमुक-
पुरश्चरण-जपम् अहं करिष्ये । अस्य श्री-राधिका-पञ्चाक्षरी-मन्त्रस्य सनक-
ऋषिः जगती-च्छन्दः श्री-राधा देवता अखिलाप्तये विनियोगः । श्रीं
अङ्गुष्टाभ्यां नमः । रां तर्जनीभ्यां नमः । धीं मध्यमाभ्यां नमः
। कें अनामिकाभ्यां नमः । श्रीं कनिष्ठाभ्यां नमः । श्री-राधिके श्री-कर-
तल-कर-पृष्ठाभ्यां नमः । श्रीं हृदयाय नमः । रां शिरसे स्वाहा । धिं
शिखायै वषट् । कें कवचाय हूं । श्रीं नेत्र-त्रयाय वौषट् । श्रीं राधिके श्रीं
अत्राय फट् । इति षड्-अङ्ग-न्यासः ।
श्रीं मूर्ध्नि । रां दक्ष-नेत्रे । धिं वाम-नेत्रे । कें मुखे । श्रीं हृदये । इति
वर्ण-न्यासः ।
श्रीं चतुर्दल-मूलाधारे । वं शं षं सं । रां षड्-दले स्वाधिष्ठाने कं भं
मं यं रं लं । धिं दश-दले मणि-पूरे । डं ढं णं तं थं दं धं नं
पं फं । कें द्वादश-दले अनाहते । कं खं गं घं ङं चं छं जं झं
ञं टं ठं । श्रीं षोडश-दले विशुद्धे । अं आं इं ईं उं ऊं ऋं ॠं ं ं एं ऐं
ओं औं अं अः । श्री-राधिके श्री-राधिके श्री-द्विदले । लक्षं । आज्ञायाम् इति षट्-
चक्रात्मक-तन्-न्यासः ।
ध्यानम्-
ध्यायेत् पद्म-करां गौरीं क्षीर-सागर-नीरगाम् ।
कृष्ण-कण्ठार्पित-करां स्मयमान-मुखाम्बुजाम् ॥ इति ध्यानम् ।
इति पूर्वं कृत्वा गुरु-मन्त्र-देवतानाम् ऐक्यं विभाव्य मन्त्र-जपं कुर्यात् ।
कृतैतत्-तन्-मन्त्र-जपस्य अमुक-सङ्ख्यात्मकस्य दशांश-होमं तद्-दशांशं
तर्पणं तद्-दशांशं मार्जनम् । तद्-दशांशम् अभिषेकम् । तद्-दशांशं
ब्राह्मण-भोजन-दानम् अहं करिष्ये । गन्धाक्षत-कुशोदकम् आदाय सर्व-
न्यास-जालं विधाय श्री-राधिका-देव्या वाम-हस्ते ---
गुह्यातिगुह्य-गोप्त्री तं गृहाणास्मत् कृतं जपम् ।
सिद्धिर् भवतु मे देवि प्रसीद श्री-रमेश्वरी ॥
इति मन्त्रेण जपादि-दान-फलं समर्पयेत् ।
अथ दीप-दान-प्रयोगम् आह-
शिव उवाच-
शृणु देवि प्रवक्ष्यामि दीप-दान-विधिं शुभम् ।
यस्मिन् कृते भवेत् सिद्धिः पञ्चाक्षर-मनोर् ध्रुवम्
नययोन्यात्मकं चक्रं मध्ये बिन्दु-विभूषितम् ।
तद्-अग्रे विलिखेत् पद्मम् अष्ट-पत्रं मनोहरम्
धरणी-वलयोपेतं विदिक्ष्व् अस्र-विभूषितम् ।
ललितायै नमः प्रोच्य मण्डलेशीं प्रपूजयेत्
(4-7)
आवाहनं स्थापनं च सन्निधापनम् एव च ।
सन्निरोधनम् एवापि चक्र-देव्याः प्रकल्पयेत्
तत्-तन्-मुद्राभिर् आचर्य पुष्पाञ्जलिं विनिक्षिपेत् ।
अथ दीपं समानीय सौवर्णं राजतं तथा
ताम्रं कांस्यम् अयं चापि मृन्-मयं शुभ-लक्षणम् ।
पञ्च-तोल-मितं वश्ये आकर्षे दश-तोलकम्
मोहने पञ्च-दशभिर् मारणे विंश-तोलकम् ।
पञ्च-विंशति-तोलैस् तु सर्व-कार्ये शुभावहम्
धर्मार्थ-काम-मोक्षेषु संग्रामे जय-वादयोः ।
कार्य-गौरवम् आलक्ष्य त्रिंशत्-तोलादि-मानकम्
अस्त्र-मन्त्रेण संक्षाल्य धूपयेन् मूल-मन्त्रतः ।
पूजयेद् गन्ध-पुष्पाद्यैर् मूलेनैवाभिमन्त्रयेत्
सुरभी-घृत-धाराभिः पूरयेन् मूल-मन्त्रतः ।
उग्र-कार्ये महेशानि तैलेनापि प्रपूरयेत्
सुगन्धिभिः प्रसूनाद्यैर् यथावद् उपकल्पयेत् ।
षोडशाङ्गुल-मानेन कुञ्चिकां तत्र धारयेत्
यद्-द्रव्येण कृतो दीपः सापि तद्-द्रव्य-निर्मिता ।
दीपान्तरं विधायाथ षट्-कोण-मण्डलोपरि
हृदयादिकम् अस्त्रान्तं पूजयेत् तत्र मण्डले ।
प्रदीपे पूजयेत् तस्मिन् स्वयं ज्योतिः सनातनम्
सनातनाय स्वयं ज्योतिषे नम इत्य् अञ्जलिं क्षिपेत् ।
भूतले ज्वालयेद् दीपं पूजयेद् उपचारकैः ।
गन्धादिभिः षोडशभिस् ततो दीपं प्रदीपयेत्
वाम-दक्ष-क्रमाद् दीप-वर्तिकां युगलात्मिकाम् ।
अखण्डाम् एव तां कुर्याद् यावत् पञ्च-दिनावधि
वन-कार्पास-तूलोत्थां विशदां दृढ-विग्रहाम् ।
कन्या-कर्तित-सूत्रेण आखण्डेन्ह बलीयसा
वामां पञ्चदशैः सूत्रैर् दक्षिणां षोडशैर् अपि ।
सर्व-कार्यं प्रसिद्ध्य्-अर्थं कर्तव्यैव तु वर्तिका
वश्येऽष्टादशभिः सूत्रैर् दक्षिणा वर्तिका भवेत् ।
वामा चैकोनविंशैस् तैर् आकर्षे विंश-तारकैः
दक्षिणैकाधिकैर् वामा मोहने चैकविंशकैः ।
दक्षिणैकाधिका वामा मारणे च द्वाविंशकैः
दक्षिणैकाधिकैर् वामा इत्थं सर्वत्र कल्पयेत् ।
अत्याहिते गुरौ कार्ये वर्तिकां पञ्चविंशकैः
त्रिंशैश् चत्वारिंश-सङ्ख्यैः पञ्चाशद्भिः शतावधि ।
कृत-मात्रे दीप-राजे सर्वं कार्यं प्रजायते
यद् यद् हृदि स्थितं वापि नालभ्यं भुवन-त्रये ।
राधा-कृष्ण-वशीकारं तत्-क्षणात् कुरुते जनः
अन्ते च महतीं पूजां कृत्वा दीपं विसर्जयेत् ।
पुत्रार्थी पुत्रम् आप्नोति धनार्थी लभते धनम्
मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0