भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 9

9.1

निजेष्ट-मन्त्र-जप-पूजया अर्ध-रात्रि-पर्यन्तं विधानम् ।
इति श्री-ऊर्ध्वाम्नाये महा-तन्त्रे श्रीमद्-गोपेश्वरी-विधानं समाप्तम् ।
अथ सम्मोहन-तन्त्रे पञ्च-बाणेश्वरी-विधानम् ।
वृषभानु-सुता सैव पञ्च-बाणेश्वरी स्वयम् ।
संक्षोभणं द्रावणं च तथैवाकर्षणं प्रिये

9.2

वशीकरणम् एवापि उन्मादनम् अनुत्तमम् ।
एते पञ्च महा-बाणा नन्द-सूनोर् मनः स्पृशः

9.3

राधिकायाः कटाक्षेपे मन्मथस्य व्यवस्थितेः ।
अत्रीश-वह्नि-पाशैश् च संक्षोभणम् उदाहृतम्

9.4

तद् एव वाम-नेत्राढ्यं द्रावणं नाम कीर्तनम् ।
आकर्षणं काम-बीजं वशीकरणम् उच्यते

9.5

प-वर्ग-तृतीयं पृथ्वी वाम-कर्णे सुभूषिताः ।
भृगुः सर्गी महेशानि उन्मादनम् उदाहृतम्

9.6

ओं नमो राधिकायै च गोपेश्वर्यै शुचि-प्रिया ।
अष्टादशाक्षरो मन्त्रः सर्व-सिद्धि-प्रदायकः

9.7

दुर्वासा ऋषिर् एतस्य छन्दोऽनुष्टुप् प्रकीर्तितम् ।
प्रणवो बीजम् एतस्य स्वाहा शक्तिर् उदाहृता ।
ध्यान-पूजादिकं चास्य पूर्ववत् परिकीर्तितम्

9.8

अतिसित-वसनां विशाल-नेत्रां
विविध-विलास-परां प्रियेण साकम् ।
सुविपुल-मणि-पीठगां किशोरीं
हृदि वृषभानु-सुतां स्मरेत नित्यम्

9.9

खण्ड-त्रयेण मन्त्रस्य द्विर्-आवृत्त्या षड्-अङ्गकम् ।
इमां विद्यां समासाद्य व्यासाद्या ऋषि-पुङ्गवाः

9.10

ब्रह्माद्या देवताश् चापि इन्द्राद्याश् च दिग्-ईश्वराः ।
नारायणस् तथैवाहं लक्ष्मीः शेषस् तथा स्मरः

9.11

अन्ये च सकला देवाः सकलैश्वर्यम् आप्नुवन् ।
तन्त्रेषु गोपिता पूर्वं मया तुभ्यं प्रकाशिता

9.12

न देया यस्य कस्यापि पुत्रेभ्योऽभिप्रगोपयेत् ।
देया विप्राय भक्ताय साधवे शुद्ध-चेतसे

9.13

अलोलुपाय पुण्याय भक्ति-श्रद्धापराय च ।
अन्यथा सिद्धि-हानिः स्यात् तस्माद् यत्नेन गोपयेत्

9.15

पाण्डित्यं सुकवित्वं च रणे वादे जयं तथा ।
वशीकारं विभूतिं च स्वर्गं चैवापवर्गकम् ।
अनायासेन देवेशि प्राप्नुवन्ति न संशयः

9.16

तथा हि-
संक्षोभ-द्रावणाकर्ष-वश्योन्मादन-रूपिणः ।
आम्ब्रं जम्बु च बकुलं चम्पकाशोक-पादपाः

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc