भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.113

9.113.01

शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा ।
बलं दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो परि स्रव ॥

9.113.02

आ पवस्व दिशाम् पत आर्जीकात् सोम मीढ्वः ।
ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥

9.113.03

पर्जन्यवृद्धम् महिषं तं सूर्यस्य दुहिताभरत् ।
तं गन्धर्वाः प्रत्य् अगृभ्णन् तं सोमे रसम् आदधुर् इन्द्रायेन्दो परि स्रव ॥

9.113.04

ऋतं वदन्न् ऋतद्युम्न सत्यं वदन् सत्यकर्मन् ।
श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥

9.113.05

सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः ।
सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥

9.113.06

यत्र ब्रह्मा पवमान छन्दस्या3ं वाचं वदन् ।
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्न् इन्द्रायेन्दो परि स्रव ॥

9.113.07

यत्र ज्योतिर् अजस्रं यस्मिँल् लोके स्वर् हितम् ।
तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥

9.113.08

यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥

9.113.09

यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥

9.113.10

यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् ।
स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥

9.113.11

यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc