ऋग्वेद · अध्याय 9.112
नानानं वा उ नो धियो वि व्रतानि जनानाम् ।
तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥
जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् ।
कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥
कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना ।
नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥
अश्वो वोळ्हा सुखं रथं हसनाम् उपमन्त्रिणः ।
शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0