ऋग्वेद · अध्याय 9.114
य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् ।
तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव ॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥
यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः ।
अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0