भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.102

9.102.01

क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् ।
विश्वा परि प्रिया भुवद् अध द्विता ॥

9.102.02

उप त्रितस्य पाष्यो3र् अभक्त यद् गुहा पदम् ।
यज्ञस्य सप्त धामभिर् अध प्रियम् ॥

9.102.03

त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् ।
मिमीते अस्य योजना वि सुक्रतुः ॥

9.102.04

जज्ञानं सप्त मातरो वेधाम् अशासत श्रिये ।
अयं ध्रुवो रयीणां चिकेत यत् ॥

9.102.05

अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।
स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥

9.102.06

यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् ।
कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ॥

9.102.07

समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।
तन्वाना यज्ञम् आनुषग् यद् अञ्जते ॥

9.102.08

क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः ।
हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc