ऋग्वेद · अध्याय 9.101
पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुर् अश्वो न कृत्व्यः ॥
तं दुरोषम् अभी नरः सोमं विश्वाच्या धिया ।
यज्ञं हिन्वन्त्य् अद्रिभिः ॥
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥
इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् ।
वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥
सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ॥
अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति ।
पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे ॥
सम् उ प्रिया अनूषत गावो मदाय घृष्वयः ।
सोमासः कृण्वते पथः पवमानास इन्दवः ॥
य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् ।
यः पञ्च चर्षणीर् अभि रयिं येन वनामहै ॥
सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥
सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि ।
इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः ॥
एते पूता विपश्चितः सोमासो दध्याशिरः ।
सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥
प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः ।
अप श्वानम् अराधसं हता मखं न भृगवः ॥
आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः ।
सरज् जारो न योषणां वरो न योनिम् आसदम् ॥
स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी ।
हरिः पवित्रे अव्यत वेधा न योनिम् आसदम् ॥
अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।
कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0