भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.103

9.103.01

प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
भृतिं न भरा मतिभिर् जुजोषते ॥

9.103.02

परि वाराण्य् अव्यया गोभिर् अञ्जानो अर्षति ।
त्री षधस्था पुनानः कृणुते हरिः ॥

9.103.03

परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति ।
अभि वाणीर् ऋषीणां सप्त नूषत ॥

9.103.04

परि णेता मतीनां विश्वदेवो अदाभ्यः ।
सोमः पुनानश् चम्वोर् विशद् धरिः ॥

9.103.05

परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् ।
पुनानो वाघद् वाघद्भिर् अमर्त्यः ॥

9.103.06

परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः ।
व्यानशिः पवमानो वि धावति ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc