ऋग्वेद · अध्याय 9.100
अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् ।
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥
पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् ।
त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥
त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः ।
त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥
परि ते जिग्युषो यथा धारा सुतस्य धावति ।
रंहमाणा व्य् अ1व्ययं वारं वाजीव सानसिः ॥
क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।
इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥
पवस्व वाजसातमः पवित्रे धारया सुतः ।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥
त्वां रिहन्ति मातरो हरिम् पवित्रे अद्रुहः ।
वत्सं जातं न धेनवः पवमान विधर्मणि ॥
पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः ।
शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
प्रति द्रापिम् अमुञ्चथाः पवमान महित्वना ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0