भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.099

9.099.01

आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौंस्यम् ।
शुक्रां वयन्त्य् असुराय निर्णिजं विपाम् अग्रे महीयुवः ॥

9.099.02

अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥

9.099.03

तम् अस्य मर्जयामसि मदो य इन्द्रपातमः ।
यं गाव आसभिर् दधुः पुरा नूनं च सूरयः ॥

9.099.04

तं गाथया पुराण्या पुनानम् अभ्य् अनूषत ।
उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥

9.099.05

तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् ।
दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥

9.099.06

स पुनानो मदिन्तमः सोमश् चमूषु सीदति ।
पशौ न रेत आदधत् पतिर् वचस्यते धियः ॥

9.099.07

स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः ।
विदे यद् आसु संददिर् महीर् अपो वि गाहते ॥

9.099.08

सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे ।
इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc