भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.085

9.085.01

इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।
मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व् इन्दवः ॥

9.085.02

अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो मदः ।
जहि शत्रूँर् अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो मृधो जहि ॥

9.085.03

अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर् उत्तमः ।
अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य निंसते ॥

9.085.04

सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम् मधु ।
जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुं नो गातुं कृणु सोम मीढ्वः ॥

9.085.05

कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अ1व्ययं समया वारम् अर्षसि ।
मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम् अक्षरः ॥

9.085.06

स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय सुहवीतुनाम्ने ।
स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ॥

9.085.07

अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो वाच ईरते ।
पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रं विशन्ति मदिरास इन्दवः ॥

9.085.08

पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीं गव्यूतिम् महि शर्म सप्रथः ।
माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनं-धनम् ॥

9.085.09

अधि द्याम् अस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः ।
राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषं दुहते नृचक्षसः ॥

9.085.10

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणं गिरिष्ठाम् ।
अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोर् ऊर्मा मधुमन्तम् पवित्र आ ॥

9.085.11

नाके सुपर्णम् उपपप्तिवांसं गिरो वेनानाम् अकृपन्त पूर्वीः ।
शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥

9.085.12

ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य ।
भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc