ऋग्वेद · अध्याय 9.084
पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे ।
कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यं जनम् ॥
आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति ।
कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसं न सूर्यः ॥
आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न् उपावसुः ।
आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ॥
एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् ।
इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति ॥
अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् ।
धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0