भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.086

9.086.01

प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना ।
दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम् आसते ॥

9.086.02

प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् ।
धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो मधुमन्त ऊर्मयः ॥

9.086.03

अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशं दिवो अद्रिमातरम् ।
वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥

9.086.04

प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि ।
प्रान्तर् ऋषयः स्थाविरीर् असृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः ॥

9.086.05

विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि यन्ति केतवः ।
व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य राजसि ॥

9.086.06

उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥

9.086.07

यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानाम् उप याति निष्कृतम् ।
सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति रोरुवत् ॥

9.086.08

राजा समुद्रं नद्यो3 वि गाहते ऽपाम् ऊर्मिं सचते सिन्धुषु श्रितः ।
अध्य् अस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥

9.086.09

दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी च धर्मभिः ।
इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु सीदति ॥

9.086.10

ज्योतिर् यज्ञस्य पवते मधु प्रियम् पिता देवानां जनिता विभूवसुः ।
दधाति रत्नं स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो रसः ॥

9.086.11

अभिक्रन्दन् कलशं वाज्य् अर्षति पतिर् दिवः शतधारो विचक्षणः ।
हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर् वृषा ॥

9.086.12

अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु गच्छति ।
अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥

9.086.13

अयम् मतवाञ् छकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा ।
तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम इन्द्र ते ॥

9.086.14

द्रापिं वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व् अर्पितः ।
स्वर् जज्ञानो नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् आ विवासति ॥

9.086.15

सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे ।
पदं यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सं याति संयतः ॥

9.086.16

प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतं सखा सख्युर् न प्र मिनाति संगिरम् ।
मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना पथा ॥

9.086.17

प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्व् अक्रमुः ।
सोमम् मनीषा अभ्य् अनूषत स्तुभो ऽभि धेनवः पयसेम् अशिश्रयुः ॥

9.086.18

आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् ।
या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम् ॥

9.086.19

वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः ।
क्राणा सिन्धूनां कलशाँ अवीवशद् इन्द्रस्य हार्द्य् आविशन् मनीषिभिः ॥

9.086.20

मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि कोशाँ अचिक्रदत् ।
त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय कर्तवे ॥

9.086.21

अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद् उ लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥

9.086.22

पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ ।
सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम् आरोहयो दिवि ॥

9.086.23

अद्रिभिः सुतः पवसे पवित्र आँ इन्दव् इन्द्रस्य जठरेष्व् आविशन् ।
त्वं नृचक्षा अभवो विचक्षण सोम गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अप ॥

9.086.24

त्वां सोम पवमानं स्वाध्यो ऽनु विप्रासो अमदन्न् अवस्यवः ।
त्वां सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर् मतिभिः परिष्कृतम् ॥

9.086.25

अव्ये पुनानम् परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः ।
अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा अहेषत ॥

9.086.26

इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे ।
गाः कृण्वानो निर्णिजं हर्यतः कविर् अत्यो न क्रीळन् परि वारम् अर्षति ॥

9.086.27

असश्चतः शतधारा अभिश्रियो हरिं नवन्ते ऽव ता उदन्युवः ।
क्षिपो मृजन्ति परि गोभिर् आवृतं तृतीये पृष्ठे अधि रोचने दिवः ॥

9.086.28

तवेमाः प्रजा दिव्यस्य रेतसस् त्वं विश्वस्य भुवनस्य राजसि ।
अथेदं विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो धामधा असि ॥

9.086.29

त्वं समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।
त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥

9.086.30

त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे ।
त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥

9.086.31

प्र रेभ एत्य् अति वारम् अव्ययं वृषा वनेष्व् अव चक्रदद् धरिः ।
सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥

9.086.32

स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस् त्रिवृतं यथा विदे ।
नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप याति निष्कृतम् ॥

9.086.33

राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः कनिक्रदत् ।
सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्न् उपावसुः ॥

9.086.34

पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया ।
गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥

9.086.35

इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वंसु कलशेषु सीदसि ।
इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥

9.086.36

सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् ।
अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥

9.086.37

ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः ।
तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम तिष्ठन्तु कृष्टयः ॥

9.086.38

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु जीवसे ॥

9.086.39

गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व् अर्पितः ।
त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम आसते ॥

9.086.40

उन् मध्व ऊर्मिर् वनना अतिष्ठिपद् अपो वसानो महिषो वि गाहते ।
राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति श्रवो बृहत् ॥

9.086.41

स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि ।
ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात् ॥

9.086.42

सो अग्रे अह्नां हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः ।
द्वा जना यातयन्न् अन्तर् ईयते नरा च शंसं दैव्यं च धर्तरि ॥

9.086.43

अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते ।
सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृभ्णते ॥

9.086.44

विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति ।
अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः ॥

9.086.45

अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः ।
हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥

9.086.46

असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति ।
अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम् ऋग्मिणो ययुः ॥

9.086.47

प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः ।
यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥

9.086.48

पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् ।
जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc