भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.083

9.083.01

पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः ।
अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ॥

9.083.02

तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् ।
अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा ॥

9.083.03

अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः ॥

9.083.04

गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य् अद्भुतः ।
गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत ॥

9.083.05

हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् ।
राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc