ऋग्वेद · अध्याय 9.082
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
पुनानो वारम् पर्य् एत्य् अव्ययं श्येनो न योनिं घृतवन्तम् आसदम् ॥
कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि ।
अपसेधन् दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते अध्वरे ॥
जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते ।
अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ॥
यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो ।
एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0