ऋग्वेद · अध्याय 9.029
प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा ।
देवाँ अनु प्रभूषतः ॥
सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर् जज्ञानम् उक्थ्यम् ॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रम् उक्थ्यम् ॥
विश्वा वसूनि संजयन् पवस्व सोम धारया ।
इनु द्वेषांसि सध्र्यक् ॥
रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् ।
निदो यत्र मुमुच्महे ॥
एन्दो पार्थिवं रयिं दिव्यम् पवस्व धारया ।
द्युमन्तं शुष्मम् आ भर ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0