ऋग्वेद · अध्याय 9.028
एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः ।
अव्यो वारं वि धावति ॥
एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः ।
विश्वा धामान्य् आविशन् ॥
एष देवः शुभायते ऽधि योनाव् अमर्त्यः ।
वृत्रहा देववीतमः ॥
एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः ।
अभि द्रोणानि धावति ॥
एष सूर्यम् अरोचयत् पवमानो विचर्षणिः ।
विश्वा धामानि विश्ववित् ॥
एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति ।
देवावीर् अघशंसहा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0