भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.030

9.030.01

प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
पुनानो वाचम् इष्यति ॥

9.030.02

इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् ।
इयर्ति वग्नुम् इन्द्रियम् ॥

9.030.03

आ नः शुष्मं नृषाह्यं वीरवन्तम् पुरुस्पृहम् ।
पवस्व सोम धारया ॥

9.030.04

प्र सोमो अति धारया पवमानो असिष्यदत् ।
अभि द्रोणान्य् आसदम् ॥

9.030.05

अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्य् अद्रिभिः ।
इन्दव् इन्द्राय पीतये ॥

9.030.06

सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे ।
चारुं शर्धाय मत्सरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc