ऋग्वेद · अध्याय 9.019
यत् सोम चित्रम् उक्थ्यं दिव्यम् पार्थिवं वसु ।
तन् नः पुनान आ भर ॥
युवं हि स्थः स्वर्पती इन्द्रश् च सोम गोपती ।
ईशाना पिप्यतं धियः ॥
वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि ।
हरिः सन् योनिम् आसदत् ॥
अवावशन्त धीतयो वृषभस्याधि रेतसि ।
सूनोर् वत्सस्य मातरः ॥
कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् ।
याः शुक्रं दुहते पयः ॥
उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु ।
पवमान विदा रयिम् ॥
नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस् तिर ।
दूरे वा सतो अन्ति वा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0