ऋग्वेद · अध्याय 9.018
परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
मदेषु सर्वधा असि ॥
त्वं विप्रस् त्वं कविर् मधु प्र जातम् अन्धसः ।
मदेषु सर्वधा असि ॥
तव विश्वे सजोषसो देवासः पीतिम् आशत ।
मदेषु सर्वधा असि ॥
आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे ।
मदेषु सर्वधा असि ॥
य इमे रोदसी मही सम् मातरेव दोहते ।
मदेषु सर्वधा असि ॥
परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति ।
मदेषु सर्वधा असि ॥
स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् ।
मदेषु सर्वधा असि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0