भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.017

9.017.01

प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः ।
सोमा असृग्रम् आशवः ॥

9.017.02

अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव ।
इन्द्रं सोमासो अक्षरन् ॥

9.017.03

अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति ।
विघ्नन् रक्षांसि देवयुः ॥

9.017.04

आ कलशेषु धावति पवित्रे परि षिच्यते ।
उक्थैर् यज्ञेषु वर्धते ॥

9.017.05

अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् ।
इष्णन् सूर्यं न चोदयः ॥

9.017.06

अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः ।
दधानाश् चक्षसि प्रियम् ॥

9.017.07

तम् उ त्वा वाजिनं नरो धीभिर् विप्रा अवस्यवः ।
मृजन्ति देवतातये ॥

9.017.08

मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः ।
चारुर् ऋताय पीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc