भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.016

9.016.01

प्र ते सोतार ओण्यो3 रसम् मदाय घृष्वये ।
सर्गो न तक्त्य् एतशः ॥

9.016.02

क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा ।
गोषाम् अण्वेषु सश्चिम ॥

9.016.03

अनप्तम् अप्सु दुष्टरं सोमम् पवित्र आ सृज ।
पुनीहीन्द्राय पातवे ॥

9.016.04

प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति ।
क्रत्वा सधस्थम् आसदत् ॥

9.016.05

प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत ।
महे भराय कारिणः ॥

9.016.06

पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः ।
शूरो न गोषु तिष्ठति ॥

9.016.07

दिवो न सानु पिप्युषी धारा सुतस्य वेधसः ।
वृथा पवित्रे अर्षति ॥

9.016.08

त्वं सोम विपश्चितं तना पुनान आयुषु ।
अव्यो वारं वि धावसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc