भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.015

9.015.01

एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः ।
गच्छन्न् इन्द्रस्य निष्कृतम् ॥

9.015.02

एष पुरू धियायते बृहते देवतातये ।
यत्रामृतास आसते ॥

9.015.03

एष हितो वि नीयते ऽन्तः शुभ्रावता पथा ।
यदी तुञ्जन्ति भूर्णयः ॥

9.015.04

एष शृङ्गाणि दोधुवच् छिशीते यूथ्यो3 वृषा ।
नृम्णा दधान ओजसा ॥

9.015.05

एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अंशुभिः ।
पतिः सिन्धूनाम् भवन् ॥

9.015.06

एष वसूनि पिब्दना परुषा ययिवाँ अति ।
अव शादेषु गच्छति ॥

9.015.07

एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः ।
प्रचक्राणम् महीर् इषः ॥

9.015.08

एतम् उ त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
स्वायुधम् मदिन्तमम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc