ऋग्वेद · अध्याय 9.014
परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः ।
कारम् बिभ्रत् पुरुस्पृहम् ॥
गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः ।
परिष्कृण्वन्ति धर्णसिम् ॥
आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
यदी गोभिर् वसायते ॥
निरिणानो वि धावति जहच् छर्याणि तान्वा ।
अत्रा सं जिघ्नते युजा ॥
नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा ।
गाः कृण्वानो न निर्णिजम् ॥
अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या ।
वग्नुम् इयर्ति यं विदे ॥
अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् ।
पृष्ठा गृभ्णत वाजिनः ॥
परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा ।
वसूनि याह्य् अस्मयुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0