भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.003

9.003.01

एष देवो अमर्त्यः पर्णवीर् इव दीयति ।
अभि द्रोणान्य् आसदम् ॥

9.003.02

एष देवो विपा कृतो ऽति ह्वरांसि धावति ।
पवमानो अदाभ्यः ॥

9.003.03

एष देवो विपन्युभिः पवमान ऋतायुभिः ।
हरिर् वाजाय मृज्यते ॥

9.003.04

एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः ।
पवमानः सिषासति ॥

9.003.05

एष देवो रथर्यति पवमानो दशस्यति ।
आविष् कृणोति वग्वनुम् ॥

9.003.06

एष विप्रैर् अभिष्टुतो ऽपो देवो वि गाहते ।
दधद् रत्नानि दाशुषे ॥

9.003.07

एष दिवं वि धावति तिरो रजांसि धारया ।
पवमानः कनिक्रदत् ॥

9.003.08

एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः ।
पवमानः स्वध्वरः ॥

9.003.09

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ॥

9.003.10

एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः ।
धारया पवते सुतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc