भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.004

9.004.01

सना च सोम जेषि च पवमान महि श्रवः ।
अथा नो वस्यसस् कृधि ॥

9.004.02

सना ज्योतिः सना स्व1र् विश्वा च सोम सौभगा ।
अथा नो वस्यसस् कृधि ॥

9.004.03

सना दक्षम् उत क्रतुम् अप सोम मृधो जहि ।
अथा नो वस्यसस् कृधि ॥

9.004.04

पवीतारः पुनीतन सोमम् इन्द्राय पातवे ।
अथा नो वस्यसस् कृधि ॥

9.004.05

त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
अथा नो वस्यसस् कृधि ॥

9.004.06

तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् ।
अथा नो वस्यसस् कृधि ॥

9.004.07

अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम् ।
अथा नो वस्यसस् कृधि ॥

9.004.08

अभ्य् अ1र्षानपच्युतो रयिं समत्सु सासहिः ।
अथा नो वस्यसस् कृधि ॥

9.004.09

त्वां यज्ञैर् अवीवृधन् पवमान विधर्मणि ।
अथा नो वस्यसस् कृधि ॥

9.004.10

रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर ।
अथा नो वस्यसस् कृधि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc