ऋग्वेद · अध्याय 9.002
पवस्व देववीर् अति पवित्रं सोम रंह्या ।
इन्द्रम् इन्दो वृषा विश ॥
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
आ योनिं धर्णसिः सदः ॥
अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः ।
अपो वसिष्ट सुक्रतुः ॥
महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः ।
यद् गोभिर् वासयिष्यसे ॥
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
सोमः पवित्रे अस्मयुः ॥
अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।
सं सूर्येण रोचते ॥
गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
याभिर् मदाय शुम्भसे ॥
तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे ।
तव प्रशस्तयो महीः ॥
अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया ।
पर्जन्यो वृष्टिमाँ इव ॥
गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत ।
आत्मा यज्ञस्य पूर्व्यः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0