भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.102

8.102.01

त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे ।
कविर् गृहपतिर् युवा ॥

8.102.02

स न ईळानया सह देवाँ अग्ने दुवस्युवा ।
चिकिद् विभानव् आ वह ॥

8.102.03

त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य ।
अभि ष्मो वाजसातये ॥

8.102.04

और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे ।
अग्निं समुद्रवाससम् ॥

8.102.05

हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः ।
अग्निं समुद्रवाससम् ॥

8.102.06

आ सवं सवितुर् यथा भगस्येव भुजिं हुवे ।
अग्निं समुद्रवाससम् ॥

8.102.07

अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् ।
अच्छा नप्त्रे सहस्वते ॥

8.102.08

अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या ।
अस्य क्रत्वा यशस्वतः ॥

8.102.09

अयं विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते ।
आ वाजैर् उप नो गमत् ॥

8.102.10

विश्वेषाम् इह स्तुहि होतॄणां यशस्तमम् ।
अग्निं यज्ञेषु पूर्व्यम् ॥

8.102.11

शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ ।
दीदाय दीर्घश्रुत्तमः ॥

8.102.12

तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
मित्रं न यातयज्जनम् ॥

8.102.13

उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः ।
वायोर् अनीके अस्थिरन् ॥

8.102.14

यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् ।
आपश् चिन् नि दधा पदम् ॥

8.102.15

पदं देवस्य मीळ्हुषो ऽनाधृष्टाभिर् ऊतिभिः ।
भद्रा सूर्य इवोपदृक् ॥

8.102.16

अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा ।
आ देवान् वक्षि यक्षि च ॥

8.102.17

तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः ।
हव्यवाहम् अमर्त्यम् ॥

8.102.18

प्रचेतसं त्वा कवे ऽग्ने दूतं वरेण्यम् ।
हव्यवाहं नि षेदिरे ॥

8.102.19

नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति ।
अथैतादृग् भरामि ते ॥

8.102.20

यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।
ता जुषस्व यविष्ठ्य ॥

8.102.21

यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति ।
सर्वं तद् अस्तु ते घृतम् ॥

8.102.22

अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः ।
अग्निम् ईधे विवस्वभिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc