ऋग्वेद · अध्याय 8.101
ऋधग् इत्था स मर्त्यः शशमे देवतातये ।
यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ॥
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥
प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् ।
अयःशीर्षा मदेरघुः ॥
न यः सम्पृच्छे न पुनर् हवीतवे न संवादाय रमते ।
तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम् ॥
प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो ।
वरूथ्य1ं वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत ॥
ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं तिसॄणाम् ।
ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ॥
आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा ।
उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥
रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ॥
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्र उपरि श्रीणानो3 ऽयं शुक्रो अयामि ते ॥
वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥
बण् महाँ असि सूर्य बळ् आदित्य महाँ असि ।
महस् ते सतो महिमा पनस्यते ऽद्धा देव महाँ असि ॥
बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥
इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता ।
चित्रेव प्रत्य् अदर्श्य् आयत्य् अ1न्तर् दशसु बाहुषु ॥
प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अ1न्या अर्कम् अभितो विविश्रे ।
बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश ॥
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः ।
प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥
वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर् उपतिष्ठमानाम् ।
देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो दभ्रचेताः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0