भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.103

8.103.01

अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः ।
उपो षु जातम् आर्यस्य वर्धनम् अग्निं नक्षन्त नो गिरः ॥

8.103.02

प्र दैवोदासो अग्निर् देवाँ अच्छा न मज्मना ।
अनु मातरम् पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥

8.103.03

यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः ।
सहस्रसाम् मेधसाताव् इव त्मनाग्निं धीभिः सपर्यत ॥

8.103.04

प्र यं राये निनीषसि मर्तो यस् ते वसो दाशत् ।
स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥

8.103.05

स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति श्रवः ।
त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥

8.103.06

यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये ॥

8.103.07

अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥

8.103.08

प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥

8.103.09

आ वंसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः ।
कुविन् नो अस्य सुमतिर् नवीयस्य् अच्छा वाजेभिर् आगमत् ॥

8.103.10

प्रेष्ठम् उ प्रियाणां स्तुह्य् आसावातिथिम् ।
अग्निं रथानां यमम् ॥

8.103.11

उदिता यो निदिता वेदिता वस्व् आ यज्ञियो ववर्तति ।
दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥

8.103.12

मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः ।
यः सुहोता स्वध्वरः ॥

8.103.13

मो ते रिषन् ये अच्छोक्तिभिर् वसो ऽग्ने केभिश् चिद् एवैः ।
कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः ॥

8.103.14

आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc