भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.099

8.099.01

त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः ।
स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ॥

8.099.02

मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः ।
तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ॥

8.099.03

श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।
वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥

8.099.04

अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः ।
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥

8.099.05

त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः ।
अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥

8.099.06

अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा ।
विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥

8.099.07

इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् ।
आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥

8.099.08

इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् ।
समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc