भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.098

8.098.01

इन्द्राय साम गायत विप्राय बृहते बृहत् ।
धर्मकृते विपश्चिते पनस्यवे ॥

8.098.02

त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः ।
विश्वकर्मा विश्वदेवो महाँ असि ॥

8.098.03

विभ्राजञ् ज्योतिषा स्व1र् अगच्छो रोचनं दिवः ।
देवास् त इन्द्र सख्याय येमिरे ॥

8.098.04

एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः ।
गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥

8.098.05

अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥

8.098.06

त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि ।
हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥

8.098.07

अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
उदेव यन्त उदभिः ॥

8.098.08

वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि ।
वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ॥

8.098.09

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
इन्द्रवाहा वचोयुजा ॥

8.098.10

त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरम् पृतनाषहम् ॥

8.098.11

त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ ।
अधा ते सुम्नम् ईमहे ॥

8.098.12

त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो ।
स नो रास्व सुवीर्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc