ऋग्वेद · अध्याय 8.100
अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् ।
यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि ॥
दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः ।
असश् च त्वं दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि ॥
प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति ।
नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ॥
अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना ।
ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि ॥
आ यन् मा वेना अरुहन्न् ऋतस्यँ एकम् आसीनं हर्यतस्य पृष्ठे ।
मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ॥
विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते ।
पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय ऋषिबन्धवे ॥
प्र नूनं धावता पृथङ् नेह यो वो अवावरीत् ।
नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ॥
मनोजवा अयमान आयसीम् अतरत् पुरम् ।
दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥
समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ॥
यद् वाग् वदन्त्य् अविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम ॥
देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ॥
सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय विष्कभे ।
हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0