भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.093

8.093.01

उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् ।
अस्तारम् एषि सूर्य ॥

8.093.02

नव यो नवतिम् पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत् ॥

8.093.03

स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् ।
उरुधारेव दोहते ॥

8.093.04

यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य ।
सर्वं तद् इन्द्र ते वशे ॥

8.093.05

यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
उतो तत् सत्यम् इत् तव ॥

8.093.06

ये सोमासः परावति ये अर्वावति सुन्विरे ।
सर्वाँस् ताँ इन्द्र गच्छसि ॥

8.093.07

तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥

8.093.08

इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः ॥

8.093.09

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः ॥

8.093.10

दुर्गे चिन् नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
त्वं च मघवन् वशः ॥

8.093.11

यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् ।
न देवो नाध्रिगुर् जनः ॥

8.093.12

अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
उभे सुशिप्र रोदसी ॥

8.093.13

त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च ।
परुष्णीषु रुशत् पयः ॥

8.093.14

वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः ।
विदन् मृगस्य ताँ अमः ॥

8.093.15

आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् ।
अजातशत्रुर् अस्तृतः ॥

8.093.16

श्रुतं वो वृत्रहन्तमम् प्र शर्धं चर्षणीनाम् ।
आ शुषे राधसे महे ॥

8.093.17

अया धिया च गव्यया पुरुणामन् पुरुष्टुत ।
यत् सोमे-सोम आभवः ॥

8.093.18

बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः ।
शृणोतु शक्र आशिषम् ॥

8.093.19

कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य आ भर ॥

8.093.20

कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् ।
वृत्रहा सोमपीतये ॥

8.093.21

अभी षु णस् त्वं रयिम् मन्दसानः सहस्रिणम् ।
प्रयन्ता बोधि दाशुषे ॥

8.093.22

पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
अपां जग्मिर् निचुम्पुणः ॥

8.093.23

इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
अच्छावभृथम् ओजसा ॥

8.093.24

इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हाम् अभि प्रयो हितम् ॥

8.093.25

तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो ।
स्तोतृभ्य इन्द्रम् आ वह ॥

8.093.26

आ ते दक्षं वि रोचना दधद् रत्ना वि दाशुषे ।
स्तोतृभ्य इन्द्रम् अर्चत ॥

8.093.27

आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो ।
स्तोतृभ्य इन्द्र मृळय ॥

8.093.28

भद्रम्-भद्रं न आ भरेषम् ऊर्जं शतक्रतो ।
यद् इन्द्र मृळयासि नः ॥

8.093.29

स नो विश्वान्य् आ भर सुवितानि शतक्रतो ।
यद् इन्द्र मृळयासि नः ॥

8.093.30

त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे ।
यद् इन्द्र मृळयासि नः ॥

8.093.31

उप नो हरिभिः सुतं याहि मदानाम् पते ।
उप नो हरिभिः सुतम् ॥

8.093.32

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतम् ॥

8.093.33

त्वं हि वृत्रहन्न् एषाम् पाता सोमानाम् असि ।
उप नो हरिभिः सुतम् ॥

8.093.34

इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुं रयिम् ।
वाजी ददातु वाजिनम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc