भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.094

8.094.01

गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् ।
युक्ता वह्नी रथानाम् ॥

8.094.02

यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
सूर्यामासा दृशे कम् ॥

8.094.03

तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
मरुतः सोमपीतये ॥

8.094.04

अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः ।
उत स्वराजो अश्विना ॥

8.094.05

पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
त्रिषधस्थस्य जावतः ॥

8.094.06

उतो न्व् अस्य जोषम् आँ इन्द्रः सुतस्य गोमतः ।
प्रातर् होतेव मत्सति ॥

8.094.07

कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः ।
अर्षन्ति पूतदक्षसः ॥

8.094.08

कद् वो अद्य महानां देवानाम् अवो वृणे ।
त्मना च दस्मवर्चसाम् ॥

8.094.09

आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः ।
मरुतः सोमपीतये ॥

8.094.10

त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे ।
अस्य सोमस्य पीतये ॥

8.094.11

त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे ।
अस्य सोमस्य पीतये ॥

8.094.12

त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
अस्य सोमस्य पीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc