ऋग्वेद · अध्याय 8.092
पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत ।
विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ॥
पुरुहूतम् पुरुष्टुतं गाथान्य1ं सनश्रुतम् ।
इन्द्र इति ब्रवीतन ॥
इन्द्र इन् नो महानां दाता वाजानां नृतुः ।
महाँ अभिज्ञ्व् आ यमत् ॥
अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः ।
इन्दोर् इन्द्रो यवाशिरः ॥
तम् व् अभि प्रार्चतेन्द्रं सोमस्य पीतये ।
तद् इद् ध्य् अस्य वर्धनम् ॥
अस्य पीत्वा मदानां देवो देवस्यौजसा ।
विश्वाभि भुवना भुवत् ॥
त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् ।
आ च्यावयस्य् ऊतये ॥
युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् ।
नरम् अवार्यक्रतुम् ॥
शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम ।
अवा नः पार्ये धने ॥
अतश् चिद् इन्द्र ण उपा याहि शतवाजया ।
इषा सहस्रवाजया ॥
अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे ।
जयेम पृत्सु वज्रिवः ॥
वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ ।
उक्थेषु रणयामसि ॥
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
अगन्म वज्रिन्न् आशसः ॥
त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः ।
न त्वाम् इन्द्राति रिच्यते ॥
स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा ।
धियाविड्ढि पुरंध्या ॥
यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः ।
तेन नूनम् मदे मदेः ॥
यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
य ओजोदातमो मदः ॥
विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः ।
विश्वासु दस्म कृष्टिषु ॥
इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः ।
अर्कम् अर्चन्तु कारवः ॥
यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
इन्द्रं सुते हवामहे ॥
त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत ।
तम् इद् वर्धन्तु नो गिरः ॥
आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः ।
न त्वाम् इन्द्राति रिच्यते ॥
विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे ।
य इन्द्र जठरेषु ते ॥
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
अरं धामभ्य इन्दवः ॥
अरम् अश्वाय गायति श्रुतकक्षो अरं गवे ।
अरम् इन्द्रस्य धाम्ने ॥
अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि ।
अरं ते शक्र दावने ॥
पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः ।
अरं गमाम ते वयम् ॥
एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः ।
एवा ते राध्यम् मनः ॥
एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः ।
अधा चिद् इन्द्र मे सचा ॥
मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते ।
मत्स्वा सुतस्य गोमतः ॥
मा न इन्द्राभ्य् आ3दिशः सूरो अक्तुष्व् आ यमन् ।
त्वा युजा वनेम तत् ॥
त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः ।
त्वम् अस्माकं तव स्मसि ॥
त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् ।
सखाय इन्द्र कारवः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0