ऋग्वेद · अध्याय 8.091
कन्या3 वार् अवायती सोमम् अपि स्रुताविदत् ।
अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥
असौ य एषि वीरको गृहं-गृहं विचाकशद् ।
इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ॥
आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि ।
शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ॥
कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् ।
कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ॥
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ॥
असौ च या न उर्वराद् इमां तन्व1म् मम ।
अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ॥
खे रथस्य खे ऽनसः खे युगस्य शतक्रतो ।
अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0