ऋग्वेद · अध्याय 8.085
आ मे हवं नासत्याश्विना गच्छतं युवम् ।
मध्वः सोमस्य पीतये ॥
इमम् मे स्तोमम् अश्विनेमम् मे शृणुतं हवम् ।
मध्वः सोमस्य पीतये ॥
अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
मध्वः सोमस्य पीतये ॥
शृणुतं जरितुर् हवं कृष्णस्य स्तुवतो नरा ।
मध्वः सोमस्य पीतये ॥
छर्दिर् यन्तम् अदाभ्यं विप्राय स्तुवते नरा ।
मध्वः सोमस्य पीतये ॥
गच्छतं दाशुषो गृहम् इत्था स्तुवतो अश्विना ।
मध्वः सोमस्य पीतये ॥
युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
मध्वः सोमस्य पीतये ॥
त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना ।
मध्वः सोमस्य पीतये ॥
नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
मध्वः सोमस्य पीतये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0