भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.086

8.086.01

उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

8.086.02

कथा नूनं वां विमना उप स्तवद् युवं धियं ददथुर् वस्यïष्टये ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

8.086.03

युवं हि ष्मा पुरुभुजेमम् एधतुं विष्णाप्वे ददथुर् वस्यïष्टये ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

8.086.04

उत त्यं वीरं धनसाम् ऋजीषिणं दूरे चित् सन्तम् अवसे हवामहे ।
यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥

8.086.05

ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे ।
ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc