ऋग्वेद · अध्याय 8.084
प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् ।
अग्निं रथं न वेद्यम् ॥
कविम् इव प्रचेतसं यं देवासो अध द्विता ।
नि मर्त्येष्व् आदधुः ॥
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥
कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् ।
वराय देव मन्यवे ॥
दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
कद् उ वोच इदं नमः ॥
अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः ।
वाजद्रविणसो गिरः ॥
कस्य नूनम् परीणसो धियो जिन्वसि दम्पते ।
गोषाता यस्य ते गिरः ॥
तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु ।
स्वेषु क्षयेषु वाजिनम् ॥
क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः ।
अग्ने सुवीर एधते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0