भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.079

8.079.01

अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः ।
ऋषिर् विप्रः काव्येन ॥

8.079.02

अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् ।
प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ॥

8.079.03

त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः ।
उरु यन्तासि वरूथम् ॥

8.079.04

त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् ।
यावीर् अघस्य चिद् द्वेषः ॥

8.079.05

अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् ।
ववृज्युस् तृष्यतः कामम् ॥

8.079.06

विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् ।
प्रेम् आयुस् तारीद् अतीर्णम् ॥

8.079.07

सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः ।
भवा नः सोम शं हृदे ॥

8.079.08

मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
मा नो हार्दि त्विषा वधीः ॥

8.079.09

अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे ।
राजन्न् अप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc