भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.080

8.080.01

नह्य् अ1न्यम् बळाकरम् मर्डितारं शतक्रतो ।
त्वं न इन्द्र मृळय ॥

8.080.02

यो नः शश्वत् पुराविथामृध्रो वाजसातये ।
स त्वं न इन्द्र मृळय ॥

8.080.03

किम् अङ्ग रध्रचोदनः सुन्वानस्यावितेद् असि ।
कुवित् स्व् इन्द्र णः शकः ॥

8.080.04

इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः ।
पुरस्ताद् एनम् मे कृधि ॥

8.080.05

हन्तो नु किम् आससे प्रथमं नो रथं कृधि ।
उपमं वाजयु श्रवः ॥

8.080.06

अवा नो वाजयुं रथं सुकरं ते किम् इत् परि ।
अस्मान् सु जिग्युषस् कृधि ॥

8.080.07

इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् ।
इयं धीर् ऋत्वियावती ॥

8.080.08

मा सीम् अवद्य आ भाग् उर्वी काष्ठा हितं धनम् ।
अपावृक्ता अरत्नयः ॥

8.080.09

तुरीयं नाम यज्ञियं यदा करस् तद् उश्मसि ।
आद् इत् पतिर् न ओहसे ॥

8.080.10

अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः ।
तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc