ऋग्वेद · अध्याय 8.078
पुरोळाशं नो अन्धस इन्द्र सहस्रम् आ भर ।
शता च शूर गोनाम् ॥
आ नो भर व्यञ्जनं गाम् अश्वम् अभ्यञ्जनम् ।
सचा मना हिरण्यया ॥
उत नः कर्णशोभना पुरूणि धृष्णव् आ भर ।
त्वं हि शृण्विषे वसो ॥
नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
नान्यस् त्वच् छूर वाघतः ॥
नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
विश्वं शृणोति पश्यति ॥
स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते ।
पुरा निदश् चिकीषते ॥
क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः ।
वृत्रघ्नः सोमपाव्नः ॥
त्वे वसूनि संगता विश्वा च सोम सौभगा ।
सुदात्व् अपरिह्वृता ॥
त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः ।
त्वाम् अश्वयुर् एषते ॥
तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे ।
दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0