भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.077

8.077.01

जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् ।
क उग्राः के ह शृण्विरे ॥

8.077.02

आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् ।
ते पुत्र सन्तु निष्टुरः ॥

8.077.03

सम् इत् तान् वृत्रहाखिदत् खे अराँ इव खेदया ।
प्रवृद्धो दस्युहाभवत् ॥

8.077.04

एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् ।
इन्द्रः सोमस्य काणुका ॥

8.077.05

अभि गन्धर्वम् अतृणद् अबुध्नेषु रजःस्व् आ ।
इन्द्रो ब्रह्मभ्य इद् वृधे ॥

8.077.06

निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् ।
इन्द्रो बुन्दं स्वाततम् ॥

8.077.07

शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् ।
यम् इन्द्र चकृषे युजम् ॥

8.077.08

तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
सद्यो जात ऋभुष्ठिर ॥

8.077.09

एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
हृदा वीड्व् अधारयः ॥

8.077.10

विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः ।
शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥

8.077.11

तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो हिरण्ययः ।
उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc