भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.076

8.076.01

इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा ।
मरुत्वन्तं न वृञ्जसे ॥

8.076.02

अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः ।
वज्रेण शतपर्वणा ॥

8.076.03

वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् ।
सृजन् समुद्रिया अपः ॥

8.076.04

अयं ह येन वा इदं स्वर् मरुत्वता जितम् ।
इन्द्रेण सोमपीतये ॥

8.076.05

मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् ।
इन्द्रं गीर्भिर् हवामहे ॥

8.076.06

इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
अस्य सोमस्य पीतये ॥

8.076.07

मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
अस्मिन् यज्ञे पुरुष्टुत ॥

8.076.08

तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
हृदा हूयन्त उक्थिनः ॥

8.076.09

पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
वज्रं शिशान ओजसा ॥

8.076.10

उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः ।
सोमम् इन्द्र चमू सुतम् ॥

8.076.11

अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् ।
इन्द्र यद् दस्युहाभवः ॥

8.076.12

वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् ।
इन्द्रात् परि तन्वम् ममे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc