भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.073

8.073.01

उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.02

निमिषश् चिज् जवीयसा रथेना यातम् अश्विना ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.03

उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.04

कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.05

यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमं हवम् ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.06

अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.07

अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.08

वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.09

प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.10

इहा गतं वृषण्वसू शृणुतम् म इमं हवम् ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.11

किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.12

समानं वां सजात्यं समानो बन्धुर् अश्विना ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.13

यो वां रजांस्य् अश्विना रथो वियाति रोदसी ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.14

आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.15

मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.16

अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.17

अश्विना सु विचाकशद् वृक्षम् परशुमाँ इव ।
अन्ति षद् भूतु वाम् अवः ॥

8.073.18

पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा ।
अन्ति षद् भूतु वाम् अवः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc