भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.072

8.072.01

हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः ।
विद्वाँ अस्य प्रशासनम् ॥

8.072.02

नि तिग्मम् अभ्य् अ1ंशुं सीदद् धोता मनाव् अधि ।
जुषाणो अस्य सख्यम् ॥

8.072.03

अन्तर् इच्छन्ति तं जने रुद्रम् परो मनीषया ।
गृभ्णन्ति जिह्वया ससम् ॥

8.072.04

जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् ।
दृषदं जिह्वयावधीत् ॥

8.072.05

चरन् वत्सो रुशन्न् इह निदातारं न विन्दते ।
वेति स्तोतव अम्ब्यम् ॥

8.072.06

उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् ।
दामा रथस्य ददृशे ॥

8.072.07

दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः ।
तीर्थे सिन्धोर् अधि स्वरे ॥

8.072.08

आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् ।
खेदया त्रिवृता दिवः ॥

8.072.09

परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी ।
मध्वा होतारो अञ्जते ॥

8.072.10

सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् ।
नीचीनबारम् अक्षितम् ॥

8.072.11

अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु ।
अवतस्य विसर्जने ॥

8.072.12

गाव उपावतावतम् मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥

8.072.13

आ सुते सिञ्चत श्रियं रोदस्योर् अभिश्रियम् ।
रसा दधीत वृषभम् ॥

8.072.14

ते जानत स्वम् ओक्य1ं सं वत्सासो न मातृभिः ।
मिथो नसन्त जामिभिः ॥

8.072.15

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
इन्द्रे अग्ना नमः स्वः ॥

8.072.16

अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः ।
सूर्यस्य सप्त रश्मिभिः ॥

8.072.17

सोमस्य मित्रावरुणोदिता सूर आ ददे ।
तद् आतुरस्य भेषजम् ॥

8.072.18

उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् ।
परि द्यां जिह्वयातनत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc