ऋग्वेद · अध्याय 8.074
विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
प्रशंसन्ति प्रशस्तिभिः ॥
पन्यांसं जातवेदसं यो देवतात्य् उद्यता ।
हव्यान्य् ऐरयद् दिवि ॥
आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् ।
यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ॥
अमृतं जातवेदसं तिरस् तमांसि दर्शतम् ।
घृताहवनम् ईड्यम् ॥
सबाधो यं जना इमे3 ऽग्निं हव्येभिर् ईळते ।
जुह्वानासो यतस्रुचः ॥
इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ ।
मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे ॥
सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया ।
तया वर्धस्व सुष्टुतः ॥
सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः ।
दधीत वृत्रतूर्ये ॥
अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् ।
यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ॥
यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः ।
स पावक श्रुधी हवम् ॥
यं त्वा जनास ईळते सबाधो वाजसातये ।
स बोधि वृत्रतूर्ये ॥
अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ॥
मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ॥
सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् ।
नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0